This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
द्धरणाभावाल्लज्जेति
 

 
भावः । पुनस्तं कम् । यस्योद्धारण विधौ

कपालिप्रभृतयोऽपि कपाली प्रभृतिः आदिर्येषां ते विष्ण्वाद-

योऽपि कर्णे हस्तं कुर्वन्ति । स्थापयन्तीत्यर्थः । स्वहस्तेन एत-

स्योद्धृत्यभावात् । एतस्य किमपि न श्रोतव्यमित्याशयेन कर्णे

हस्तन्यास इति भावः । करं कर्णे इत्येकवचनं तु द्वितीय-

कर्णेन श्रोतव्यं यद्धि स्वहस्तेन एतदीयं कार्य भविष्यति

चेत्करिष्यामः नो चेन्नेत्येतदर्थबोधनाय ॥ २८ ॥
 

 
इदानीमपरिमितसंशयेन पापाचरणे निवृत्तैचाण्डालानां स

मू
हैरपि त्यक्तानां पापानामाकरैः पुनातुं यत्नं कुर्वन्त्यास्तव स्तुतिं

कर्तुं नरपशुरहं कथं शत्रुयामित्यहङ्कारपरिहरणव्याजेनाह-

श्वपाकानां वाव्रातैरमितविचिकित्साविचलितै-
३८
 

विमुक्तानामेकं किल सदनमेनःपरिषदाम् ।

अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं
 

तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः २९

श्वपाकानामिति । भो जननि, मां उद्धर्तुतुं परिकरं कटि-

बन्धं विवेकमारम्भं यत्नं वा । 'प्रगाढगात्रैकन्धे विवेका-

रम्भयो' रिति विश्वः । 'यतात्नरम्भौ परिकरौ' इति त्रिकाण्ड-

शेषः । घटयन्त्याः कुर्वन्त्याः तव श्लाघां स्तुतिं कर्तुं नरः पशु-

रिवेति व्याघ्रादित्वात्समासः । सर्वानविशेषेण पश्यतीति

पशुः । हिताहितज्ञानशून्यः मूर्ख इति यावत् । एतादृशोऽहं

कथमिव केनापि प्रकारेण समर्थ: । अपितु न कथमसीत्यर्थः ।

मन्मतिमान्द्यात्तव गुणानामपारत्वाच्चेति भावः ।
 
NSTITUT
 
॥जमिस्तु ॥
 

 
Research Institute
 
अहो इत्याश्चर्यो।