This page has been fully proofread once and needs a second look.

किंचित्प्रास्ताविकम् ।
 
अयि गीर्वाणवाणीरसिका वसुंधरागीर्वाणाः ! कर्णे कुरुतेमं लघु-
तरं प्रस्तावम् । भूयांसः खल्वत्र मानुषप्राणिनः मुत्पद्यन्ते स्वेस्वेऽ-
वसरे तिरोभवन्ति च । येषां गणना दुःशक्या सहस्राक्षेणापीति
न तिरोहितं विदुषाम् । ते पुनर्मातृजठरान्निर्गता इत्येव संभूता
इत्यभिधीयन्ते । एवंविधं जन्म तिरश्चामपि साधारणमिति कृत्वा
किं तेन जननीयौवनकुठारायितेन जनुषा, किंतु स एव लोके संभूत
इत्यभिधीयते संख्यावद्भिर्यस्य दशस्वपि दिक्षु धावल्येन विसृमरा
कीर्तिः प्रसरति, यस्य चात्यन्तप्रणयिनीव वशंवदा भगवती सर-
स्वती, यश्च मोदयति सुधाधारानिर्विशेषेण मधुरेण स्वीयाचरणेन
स्वान्तानि रसिकानाम् । विरलाः स्वल्वेवंविधा जनिमन्तो वसुधायां
समुत्पद्यन्ते । समुत्पन्नेष्वपि विरला एव नाभिभूयन्ते सहसाऽहंका-
रेण। यमुद्दिश्यायमस्माभिः प्रस्ताव आरब्धः सोऽपि किल महाशयः
प्रतिभटदन्तावलकेसरी पण्डितराजो जगन्नाथ एवंविधैरेवाखिलैर्गुण-
गणैरासीत्संपन्न इति तदैतिह्यं विबुधोद्धृतं यथाश्रुतं प्रस्तूयते--
 
पण्डितोत्तंसस्यैतस्य जननावसरो यद्यपि न शक्यते यथावन्निर्देष्टुं,
तथापि दिल्लीपतिसमाश्रयणं नानाविधैः प्रमाणैर्निर्णीयमानं ज्ञापय-
त्यापाततोऽस्य स्थितिसमयम् । सोऽयं भामिनीविलासस्यान्तिमोल्लासे
‘दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः' इति स्वयमेव प्रत्यपी-
पदत् । सच दिल्लीशः शहाजहान एवेति निश्चीयते । यतोऽयं आसफ-
विलासकाव्ये शहाजहानमेवास्तोत् । शहाजहानस्तु शालिवाहनीयश-
कस्य षोडशशताब्द्या अपरार्धे अशीत्युत्तरपञ्चशतमिते १५८० शाके
दिल्लीेश्वरत्वमापन्नः सन् तस्यैव शकस्यावसाने कालवशं जागम।
तदवध्येबास्य यौवनारूढस्य दिल्लीनगरे संस्थितिरित्यपि सुवचम्।