This page has been fully proofread once and needs a second look.

पीयूषलहरी व्याख्यासहिता ।
 

 
३७
 

 
इदानीं ननुरे तीर्थान्तराणि शिवादिदेवांश्च विहाय मामेव

किं स्तौषीति चेत्तीर्थानि मदुद्धरणविधौ लज्जन्ते, शिवादयश्च

कर्णे हस्तं स्थापयन्ति, त्वं तु मातृत्वेन दयया मां पुनाना तेषां

पापनाशनाभिमानं नाशयसीत्याह-

त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ

करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः ।

• इमं तं मामम्व त्वब त्वेमियमनुकम्पार्द्रहृदये

पुनाना सर्वेषामघमथनदर्पं दलयसि ॥ २८ ॥

त्रपन्त इति । भो अनुकम्पार्द्रहृदये अम्ब अनुकम्पा दया

तया आर्द्र हृदयं यस्याः सा तत्संबोधनं एतादृशि अम्ब जननि ।

अम्बत्वेन त्यागानर्हता । तं इमं तव समीपे वर्तमानं मां जगन्नाथं

पुनाना पुनाति तच्छीला । ताच्छी ये शानच् । पवित्रीकु-

र्वाणा इयं त्वं तेषां तीर्थादीनां अघमथनदर्प अघस्य पापस्य

मथनं नाशनं तस्य दर्पः गर्वः तं दलयसि विदारयसि । नाश-

यसीत्यर्थः । एतावत्कालपर्यन्तं तेषां परमगर्वः स्थितः वयं

सर्वेषां पापनाशनं कुर्मः इदानीं तु मम परमपातकिनस्तद्धस्तेन

उद्धारणाभावाचया उद्धारणस्य कृतत्वात्तेषां गर्यो गत इति भावः ।

ननु तेषां हस्तेन किमित्युद्धरणं भवतीति चेत्तत्राह । तं

कम् । इह यस्य उद्धृतिविधौ उद्धृतेः विधिः करणं तत्र । 'विधि-
विं

र्वि
धाने देदैवे च' इत्यमरः । तीर्थानि गोदावर्यादीनि त्वरितं

यथास्यात्तथा महापातकिनो मम दर्शनसमय एवेति भावः ।

त्रपन्ते लज्जितानि भवन्ति । स्वहस्तेन महापातकिनो ममो-
॥ तेजस्वि नावधीतमस्तु ॥
 

 
१ त्वमपि करुणापूर्णहृदये इति पाठः ।
 
ASTITI
POON
 
UNDED
 
Bhandarkar Oriental
Research Institute