2023-02-25 06:39:23 by ambuda-bot
This page has not been fully proofread.
पीयूषलहरी व्याख्यासहिता ।
३७
इदानीं ननुरे तीर्थान्तराणि शिवादिदेवांश्च विहाय मामेव
किं स्तौषीति चेत्तीर्थानि मदुद्धरणविधौ लजन्ते, शिवादयश्च
कर्णे हस्तं स्थापयन्ति, त्वं तु मातृत्वेन दयया मां पुनाना तेषां
पापनाशनाभिमानं नाशयसीत्याह-
त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ
करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः ।
• इमं तं मामम्व त्वमियमनुकम्पार्द्रहृदये
पुनाना सर्वेषामघमथनदर्प दलयसि ॥ २८ ॥
त्रपन्त इति । भो अनुकम्पार्द्रहृदये अम्ब अनुकम्पा दया
तया आर्द्र हृदयं यस्याः सा तत्संबोधनं एतादृशि अम्ब जननि ।
अम्बत्वेन त्यागानर्हता । तं इमं तव समीपे वर्तमानं मां जगन्नाथं
पुनाना पुनाति तच्छीला । ताच्छी ये शानच् । पवित्रीकु-
र्वाणा इयं त्वं तेषां तीर्थादीनां अघमथनदर्प अघस्य पापस्य
मथनं नाशनं तस्य दर्पः गर्वः तं दलयसि विदारयसि । नाश-
यसीत्यर्थः । एतावत्कालपर्यन्तं तेषां परमगर्वः स्थितः वयं
सर्वेषां पापनाशनं कुर्मः इदानीं तु मम परमपातकिनस्तद्धस्तेन
उद्धारणाभावाचया उद्धारणस्य कृतत्वात्तेषां गर्यो गत इति भावः ।
ननु तेषां हस्तेन किमित्युद्धरणं भवतीति चेत्तत्राह । तं
कम् । इह यस्य उद्धृतिविधौ उद्धृतेः विधिः करणं तत्र । 'विधि-
विंधाने देवे च' इत्यमरः । तीर्थानि गोदावर्यादीनि त्वरितं
यथास्यात्तथा महापातकिनो मम दर्शनसमय एवेति भावः ।
त्रपन्ते लज्जितानि भवन्ति । स्वहस्तेन महापातकिनो ममो-
॥ तेजस्वि नावधीतमस्तु ॥
१ त्वमपि करुणापूर्णहृदये इति पाठः ।
ASTITI
POON
UNDED
Bhandarkar Oriental
Research Institute