This page has been fully proofread once and needs a second look.

पूर्वं जलकणाः संतापं हरन्तामित्युक्तम्, इदानीं तापबा-
हुल्यात्कणानां कथं तत्संभवतीति चेत् तव जलानां संघातः
अस्माकं तापशमनं करोत्विति प्रार्थयते--
 
इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं
तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव ।
स एष श्रीकण्ठप्रविततजटाजूटजटिलो
जलानां संघातस्तव जननि तापं हरतु नः ॥ २७ ॥
 
इदमिति । भो जननि, श्रीकण्ठप्रविततटाजूटजटिल:
प्रविततः विस्तृतः स चासौ जटाजूटश्च श्रीकण्ठस्य प्रवितत-
जटाजूट: तेन जटिलः सजटः एतादृशः स एषः तव जलानां
संघातः समुदायः नः अस्माकं तापं हरतु । स कः । यस्य
जलानां संघातस्यान्तर्मध्ये सकलभुवनाभोगभवनं सकलभुव-
नानां चतुर्दशभुवनानां आसमन्तात् भोगः सुखं । 'भोगः सुखे
स्त्र्यादिभृतौ' इत्यमरः । यद्वा सकलभुवनानां आभोगः परि-
पूर्णता । 'आभोग' परिपूर्णता' इत्यमरः । तस्य भवनं गृहम् एता-
दृशमिदं ब्रह्माण्डं तरङ्गैः सह । 'सहयुक्ते प्रधाने' इति सूत्रेण
तृतीया । परितस्तिन्दुकमिव तिन्दुकस्य फलं तिन्दुकम् ।
'तिन्दुकः स्फूर्जकः' इत्यमरः । 'टेंबुर्णी’ति भाषायां प्रसिद्धिः ।
लुठति । 'लुठ संश्लेषणे' तुदादिः । हीति आश्चर्ये । यस्मिंश्चतुर्द-
शभुवनाधारभूतं ब्रह्माण्डमपि स्थितम् सोऽपि शिवकपर्दे स्थित
इत्याश्चर्यम् । अत्रोत्तरोत्तरमुत्कर्षस्य सत्वात् सारालंकारः ।
तदुक्तं अप्पय्यदीक्षितैः कुवलयानन्दे 'उत्तरोत्तरमुत्कर्ष: सार
इत्यभिधीयते' इति ॥ २७ ॥