This page has been fully proofread once and needs a second look.

३६
 
गङ्गालहरी ।
 

 
पूर्वं जलकणाः संतापं हरन्तामित्युक्तम्, इदानीं तापवाबा-

हुल्यात्कणानां कथं तत्संभवतीति चेत् तव जलानां संघातः

अस्माकं तापशमनं करोत्विति प्रार्थयते-

इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं

तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव ।

स एष श्रीकण्ठप्रविततजटाजूटजटिलो

जलानां संघातस्तव जननि तापं हरतु नः २७

इदमिति । भो जननि, श्रीकण्ठप्रविततटाजूटजटिल:

प्रविततः विस्तृतः स चासौ जटाजूटश्च श्रीकण्ठस्य प्रवितत-

जटाजूट: तेन जटिलः सजटः एतादृशः स एषः तव जलानां

संघातः समुदायः नः अस्माकं तापं हरतु । स कः । यस्य

जलानां संघातस्यान्तर्मध्ये सकलभुवनाभोगभवनं सकलभुव-

नानां चतुर्दशभुवनानां आसमन्तात् भोगः सुखं । 'भोगः सुखे

ख्यादिभृतौ' इत्यमरः । यद्वा सकलभुवनानां आभोगः परि-

पूर्णता । 'आभोग' परिपूर्णता' इत्यमरः । तस्य भवनं गृहम् एता-

दृशमिदं ब्रह्माण्डं तरङ्गैः सह । 'सहयुक्ते प्रधाने' इति सूत्रेण

तृतीया । परितस्तिन्दुकमिव तिन्दुकस्य फलं तिन्दुकम् ।

'तिन्दुकः स्फूर्जकः' इत्यमरः । 'टेंचुबुर्णी' ति भाषायां प्रसिद्धिः ।

लुठति । 'लुठ संश्लेषणे' तुदादिः । हीति आश्चर्ये । यस्मिंश्चतुर्द-

शभुवनाधारभूतं ब्रह्माण्डमपि स्थितम् सोऽपि शिवकपदेंर्दे स्थित

इत्याश्रर्यम् । अत्रोत्तरोत्तरमुत्कर्षस्य सत्वात् सारालंकारः ।

तदुक्तं अप्पय्यदीक्षितैः कुवलयानन्दे
'उत्तरोत्तरमुत्कर्ष: सार
इत्यभिधीयते' इति ॥ २७ ॥
 
'उत्तरोत्तरमुत्कर्ष: सार
 
1917
 
॥ तेजस्वि
 
नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute