This page has been fully proofread once and needs a second look.

स्फुरत्कामक्रोधप्रबलतरसंजातजटिल-
ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् ।
हरन्तां संतापं कमपि मरुदुल्लासलहरि-
च्छटाश्चञ्चत्पाथःकणसरणयो दिव्यसरितः ॥ २६ ॥
 
स्फुरदिति । दिव्यसरितः दिवि आकाशे भवा दिव्या
'भवार्थे दिगादित्वाद्यत्' सा चासौ सरिच्च तस्याः गङ्गायाः
मरुदुल्लासलहरिच्छटाचञ्चत्पाथःकणसरणयः मरुतः वायोरु-
ल्लासः संबन्धः गमनं वा । 'लस संश्लेषगमनयोः' इति
धातोर्भावे घञ् । तेन या लहर्यः तासां याश्छटाः परम्पराः
ताभिश्चञ्चत् उद्दधत् यत्पाथः उदकम् । 'कबन्धमुदकं पाथः'
इत्यमरः । तस्य कणा: तुषाराः तेषां सरणयः पङ्क्तय: नः
अस्माकं कमपि औषधादिभिरसाध्यतयाऽपहर्तुमशक्यमपि
संतापं हरन्तां नाशयन्तु । कथंभूतानां नः । प्रतिदिनं दिनेदिने
इति प्रतिदिनं 'अव्ययं विभक्ति--' इति सूत्रे योग्यतावीप्साप-
दार्थानतिवृत्तिसादृश्यानीति चत्वारो यथाशब्दार्थाः तत्र वी-
प्सायां अव्ययीभावः । स्फुरत्कामक्रोधप्रबलतरसंजातजटिलज्व-
रज्वालाजालज्वलितवपुषां । कामोऽभिलाषः । 'कामः पञ्चशरः
स्मरः' इत्यमरः । क्रोध अमर्ष: । 'कोपक्रोधामर्षरोष' इत्यमरः ।
स्फुरन्तौ देदीप्यमानौ च तौ कामक्रोधौ च ताभ्यां प्रबलतरम-
तिशयितं संजात उत्पन्नः अतएव जटिलः शिखावान् एता-
दृशो यो ज्वरः तस्य ज्वाला अर्चयः तासां जालं समूह तेन
ज्वलितं दग्धं तादृशं वपुः शरीरं येषां तेषाम् ॥ २६ ॥