This page has been fully proofread once and needs a second look.

३५
 
पीयूपलहरींव्याख्यासहिता ।
 

 
स्फुरत्कामक्रोधप्रबलतरसंजातजटिल-

ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् ।

हरन्तां संतापं कमपि मरुदुल्लासलहरि-

च्छटाश्चञ्चत्पाथःकणसरणयो दिव्यसरितः २६

स्फुरदिति । दिव्यसरितः दिवि आकाशे भवा दिव्या

'भवार्थे दिगादित्वाद्यत्' सा चासौ सरिच्च तस्याः गङ्गायाः

मरुदुल्लासलहरिच्छटाचञ्चत्पाथः कणसरणयः मरुतः वायोरु-

ल्लासः संबन्धः गमनं वा । 'लस संश्लेषगमनयोः' इति

धातोर्भावे घञ् । तेन या लहर्यः तासां याश्छटाः परम्पराः

ताभिश्चञ्चत् उद्दधत् यत्पाथः उदकम् । 'कबन्धमुदकं पाथः'

इत्यमरः । तस्य कणा: तुषाराः तेषां सरणयः पयः नः

अस्माकं कमपि औषधादिभिरसाध्यतयाऽपहर्तुमशक्यमपि

संतापं हरन्तां नाशयन्तु । कथंभूतानां नः । प्रतिदिनं दिनेदिने

इति प्रतिदिनं 'अव्ययं विभक्ति-' इति सूत्रे योग्यतावीप्साप-

दार्थानतिवृत्तिसादृश्यानीति चत्वारो यथाशब्दार्थाः तत्र वी-

प्सायां अव्ययीभावः । स्फुरत्कामक्रोधप्रबलतरसंजातजटिलज्व-

रज्वालाजालज्वलितवपुषां । कामोऽभिलाषः । 'कामः पञ्चशरः

स्मरः' इत्यमरः । क्रोध अमर्पः । 'कोपक्रोधामर्षरोष' इत्यमरः ।

स्फुरन्तौ देदीप्यमानौ च तौ कामक्रोधौ च ताभ्यां प्रबलतरम-

तिशयितं संजात उत्पन्नः अतएव जटिलः शिखावान् एता-

दृ
शो यो ज्वरः तस्य ज्वाला अर्चयः तासां जालं समूह तेन

ज्वलितं दग्धं तादृशं वपुः शरीरं येषां तेषाम् ॥
 
ANSTITUR
 
D
 
२६तजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute