This page has been fully proofread once and needs a second look.

३४
 
गङ्गालहरी
 

 
कल्याणी कल्याणकारिका कथा महीमण्डलमगात् । 'इणो

गा लुङि' इति गादेशे 'गातिस्था-' इति सिचो लुक् । तदारभ्य

वैवस्वतनगरकोलाहलभरः वैवस्वतस्यान्तकस्य 'वैवस्वतोऽन्तकः'

इत्यमरः । नगरं पुरं तत्र कोलाहलभरः कलकलसमूहः ।

'कोलाहलः कलकलः' इत्यमरः । विलीनः विशेषेण लीनः

गुप्तः । अभृभूदिति शेषः । विशेषश्च कस्मिन्नपि काले ईदपि

नास्तीति । पूर्वं तत्र पापिगमनेन तेषां ताडनात् कोलाहलः

स्थितः इदानीं तु त्वत्कथाश्रवणमाहात्म्येन पापाभावात्कस्यापि

तत्र गमनाभावेन ताडनाद्यभावादिति भावः । दूता अपि

अर्थात् यमसंदेशहारका अपि 'स्यात्संदेशहरो दूतः' इत्यमरः ।

क्वचिद्देशे परेतान् शवान्मृगयितुं अन्वेषितुं दूरं गताः । यस्मि

न्देशे त्वत्कथा श्रवणं नास्ति तत्र गता इत्यर्थः । ननु यमनग-

रगमनाभावे त्वत्कथाश्रवणिनः क्व गच्छन्तीति चेत्तत्राह-

विमानानां विशिष्टं आनयन्ति ये ते, विगतं मानं वा येषां ते

विमाना: व्योमयानानि । 'व्योमयानं विमानोऽस्त्री' इत्यमरः ।

तेषां व्रातो निकरः । 'स्तोमौधनिकरत्रात' इत्यमरः । दिविषदां

दिवि सीदन्ति ते दिविषदो देवाः तेषाम् । 'शदूलद्लृ विशरण-

गत्यवसादनेष्वि' ति धातोः 'सत्'सूद्विष इति क्विप् 'हृद्युभ्यां च'

इति डेरलुक् सुपामादित्वात्पत्वम् । वीथी: मार्गान् । देवगमन-

मार्गानित्यर्थः । विदलयति विशेषेण दलयति विदारयति ।

त्वत्कथा श्रवणमाहात्म्येन सर्वेषां विमानैर्गमनात वारंवारं

विमानसंवाधाबाधत् खनितानिव करोतीत्यर्थः ॥ २५ ॥
 
INSTITUTE
 
POONA
 

 
इदानीं तव जलकणाः कामक्रोधजनितज्वरदग्धशरीरिणा-
मसा

मस्मा
कं संतापशमनं कुर्वन्त्विति प्रार्थयते-
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute