This page has not been fully proofread.

३४
 
गङ्गालहरी
 
कल्याणी कल्याणकारिका कथा महीमण्डलमगात् । 'इणो
गा लुङि' इति गादेशे 'गातिस्था-' इति सिचो लुक् । तदारभ्य
वैवस्वतनगरकोलाहलभरः वैवस्वतस्यान्तकस्य 'वैवस्वतोऽन्तकः'
इत्यमरः । नगरं पुरं तत्र कोलाहलभरः कलकलसमूहः ।
'कोलाहलः कलकलः' इत्यमरः । विलीनः विशेषेण लीनः
गुप्तः । अभृदिति शेषः । विशेषच कस्मिन्नपि काले ईपदपि
नास्तीति । पूर्व तत्र पापिगमनेन तेषां ताडनात् कोलाहलः
स्थितः इदानीं तु त्वत्कथाश्रवणमाहात्म्येन पापाभावात्कस्यापि
तत्र गमनाभावेन ताडनाद्यभावादिति भावः । दूता अपि
अर्थात् यमसंदेशहारका अपि 'स्यात्संदेशहरो दूतः' इत्यमरः ।
क्वचिद्देशे परेतान् शवान्मृगयितुं अन्वेषितुं दूरं गताः । यस्मि
न्देशे त्वत्कथा श्रवणं नास्ति तत्र गता इत्यर्थः । ननु यमनग-
रगमनाभावे त्वत्कथाश्रवणिनः क्व गच्छन्तीति चेत्तत्राह-
विमानानां विशिष्टं आनयन्ति ये ते, विगतं मानं वा येषां ते
विमाना: व्योमयानानि । 'व्योमयानं विमानोऽस्त्री' इत्यमरः ।
तेषां व्रातो निकरः । 'स्तोमौधनिकरत्रात' इत्यमरः । दिविषदां
दिवि सीदन्ति ते दिविषदो देवाः तेषाम् । 'शदूल विशरण-
गत्यवसादनेष्वि' ति धातोः 'सत्' इति क्विप् 'हृद्युभ्यां च'
इति डेरलुक् सुपामादित्वात्पत्वम् । वीथी: मार्गान् । देवगमन-
मार्गानित्यर्थः । विदलयति विशेषेण दलयति विदारयति ।
त्वत्कथा श्रवणमाहात्म्येन सर्वेषां विमानैर्गमनात वारंवारं
विमानसंवाधात् खनितानिव करोतीत्यर्थः ॥ २५ ॥
 
INSTITUTE
 
POONA
 
इदानीं तव जलकणाः कामक्रोधजनितज्वरदग्धशरीरिणा-
मसाकं संतापशमनं कुर्वन्त्विति प्रार्थयते-
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute