This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता
 

 
३३
 

 
गतिः गमनं यस्य सः पुण्यगतिदां पुण्येषु गतिः तां ददाति

सा ताम् । यद्वा पुण्येषु पुण्यलोकेषु गतिदाम् । पु० । पतन्

पतितः विश्वोद्धत्रीं उद्धारकर्त्रीम् । 'त्रिभुवन विधातुश्च कल
हः
इतिवत् शेषपठ्या समासः । एवं च विश्वान्तर्गतस्य ममोद्वार

करिष्यस्येवेति भावः । पु० । गदविगलितः गदैः आतङ्कः ।

रोगैरित्यर्थः । विगलितः विशेषेण गलितः जर्जरितः । 'यक्ष्मा-

न्तकगदाबाधाः शब्दाः पर्यायवाचकाः' इति । सिद्धभिषजं

सिद्धौषधदाम् । सिद्धवैद्यरूपामित्यर्थः । 'रोगहार्यगदङ्कारो भिष-

ग्वैद्यौ चिकित्सके' इत्यमरः । पु० । तृष्णाकुलितहृदयः तृष्णया

पिपासया आकुलितं व्याप्तं हृदयं यस्य सः । सुधासिन्धुं

सुधाया अमृतस्य सिन्धुं समुद्रम् । यद्वा सुधायाः सिन्धु

देशम् । यद्वा सुधायाः सिन्धुं नदीम् । तथाचामरः 'देशे नद-

विशेषेऽन्ब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इति । अत्र परिकरा-

लंकारः । साभिप्रायविशेषणानां सत्वात् । तदुक्तं कुवलया-

नन्दे-'अलंकारः परिकरः साभिप्राये विशेषणे' इति ॥ २४ ॥

इदानीं यदारभ्य तव कथा भूलोकमागता तदारभ्य यम-

नगरकोलाहलः शान्तः तद्द्दूता अपि दूरदेशं गताः विमान-

सङ्घश् देववीथीविंदलयतीत्याह-

विलीनो वै वैवस्वतनगरकोलाहलभरो
 

 
गता दूता दूरं क्वचिदपि परेतान्मृगयितुम् ।

विमानानां व्रातो विदलयति वीथीर्दिविषदां

कथा ते कल्याणी यदवधि
 
ANSTITORI
 
महीमण्डलमगात्
 

विलीन इति । भो जननि, यदवधि यदारभ्य ते तत्र
 
1917
 
नावधी
Bhandarkar Oriental
Research Institute
 
TE