This page has been fully proofread once and needs a second look.

शुद्धिकरणाभावात्तानि व्यर्थानीति भावः । अथानन्तरं तपो-
दानयजनैः तपांसि कृच्छ्रचान्द्रायणादीनि, दानानि गजाश्वा-
दीनि, यजनानि देवपूजायागादीनि तैरलम् । तैः साध्यं नास्तीति
भावः । गम्यमानक्रियां प्रति कारकत्वात्तृतीया । अहो इत्या-
श्चर्ये । अनेकेषां कार्यमेकैव त्वं करोषीत्याश्चचर्यम् ॥ २३ ॥
 
इदानीं अनाथ इत्यादिविशेषयुक्तोऽहं स्नेहार्द्रामित्यादिवि-
शेषणयुक्तां त्वां प्राप्तोस्मि । अतस्त्वं स्वमहत्त्वयोग्यं कुर्वित्याह--
 
अनाथः स्नेहार्द्रां [^१]विगलितगतिः पुण्यगतिदां
पतन्विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम् ।
सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं
शिशुः संप्रातस्त्वामहमिह विदध्या; समुचितं ॥
 
अनाथ इति । भो गङ्गे अयमहं शिशुः श्यति दिनेदिने
कृशो भवतीति शिशुः शावकः । 'शः कित्सन्वच्च' इत्यादि-
सूत्रेण साधु: । 'पृथुक: शावकः शिशुः' इत्यमरः । मातरं
जननीं त्वां प्राप्तोस्मि । इह विषये त्वं समुचितं सम्यगुचितं
योग्यं विदध्याः कुरु । शरणागतं बालं मां मातृत्वान्मा त्यजेति
भावः । कीदृशोऽहम् । कीदृशीं त्वाम् । अनाथः दीनः ।
स्वाम्यन्तराभाववानित्यर्थः । स्नेहार्द्रां स्नेहेन प्रीत्या आर्दां
क्लिन्नाम् । ’आर्दं सान्द्रं क्लिन्नम्' इत्यमरः । पुनः कीदृशोऽहम् ।
कीदृशीं त्वाम् । विगलितगतिः विगलिता नष्टा गतिः गमनं
यस्य सः । यद्वा विगलिता पापबाहुल्येन नष्टा गतिः पुण्यलोके
-------------------------------
[^१] विदलित इति पाठः ।