2023-03-25 18:11:03 by Rupa jha
This page has been fully proofread once and needs a second look.
दानयजनैः तपांसि कृच्छ्रचान्द्रायणादीनि, दानानि गजाश्वा-दीनि, यजनानि देवपूजायागादीनि तैरलम् । तैः साध्यं नास्तीति
श्चर्ये । अनेकेषां कार्यमेकैव त्वं करोषीत्याश्चचर्यम् ॥ २३ ॥
इदानीं अनाथ इत्यादिविशेषयुक्तोऽहं स्नेहार्द्रामित्यादिवि-
शेषणयुक्तां त्वां प्राप्तोस्मि । अतस्त्वं स्वमहत्त्वयोग्यं कुर्वित्याह-
अनाथः स्नेहार्द्रा विगलितगतिः पुण्यगतिदां
पतन्विश्वोद्धर्त्री गदविगलितः सिद्धभिषजम् ।
सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं
शिशुः संप्रातस्त्वामहमिह विदध्या; समुचितं ॥
अनाथ इति । भो गङ्गे अयमहं शिशुः श्यति दिनेदिने
कृशो भवतीति शिशुः शावकः । 'शः कित्सन्वच्च' इत्यादि-
सूत्रेण साधु: । 'पृथुक: शावकः शिशुः' इत्यमरः । मातरं
जननीं त्वां प्राप्तोस्मि । इह विषये त्वं समुचितं सम्यगुचितं
योग्यं विदध्याः कुरु । शरणागतं बालं मां मातृत्वान्मा त्यजेति
भावः । कीदृशोऽहम् । कीदृशीं त्वाम् । अनाथः दीनः ।
स्वाभ्यन्तराभाववानित्यर्थः । स्नेहार्द्
क्लिन्नाम् । ’आर्
कीदृशीं त्वाम् । विगलितगतिः विगलिता नष्टा गतिः गमनं
यस्य सः । यद्वा विगलिता पापबाहुल्येन नष्टा गतिः पुण्यलोके
१ विदलित इति पाठः ।