This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
शुद्धिकरणाभावात्तानि व्यर्थानीति भावः । अथानन्तरं तपो-

दानयजनैः तपांसि कृच्छ्रचान्द्रायणादीनि, दानानि गजावा-
श्वादीनि, यजनानि देवपूजायागादीनि तैरलम् । तैः साध्यं नास्तीति
मा

भा
वः । गम्यमानक्रियां प्रति कारकत्वात्तृतीया । अहो इत्या-

श्च
र्ये । अनेकेषां कार्यमेकैव त्वं करोषीत्याश्चचर्यम् ॥ २३ ॥
 

 
इदानीं अनाथ इत्यादिविशेषयुक्तोऽहं स्नेहार्द्रामित्यादिवि-

शेषणयुक्तां त्वां प्राप्तोस्मि । अतस्त्वं स्वमहत्त्वयोग्यं कुर्वित्याह-

अनाथः स्नेहार्द्रा विगलितगतिः पुण्यगतिदां

पतन्विश्वोद्धत्रर्त्री गदविगलितः सिद्धभिषजम् ।

सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं

शिशुः संप्रातस्त्वामहमिह विद्ध्याःया; समुचितं ॥

अनाथ इति । भो गङ्गे अयमहं शिशुः श्यति दिनेदिने

कृशो भवतीति शिशुः शावकः । 'शः कित्सन्च्च' इत्यादि-

सूत्रेण साधु: । 'पृथुक: शावकः शिशुः' इत्यमरः । मातरं

जननीं त्वां प्राप्तोस्मि । इह विषये त्वं समुचितं सम्यगुचितं

योग्यं विदध्याः कुरु । शरणागतं बालं मां मातृत्वान्मा त्यजेति

भावः । कीदृशोऽहम् । कीदृशीं त्वाम् । अनाथः दीनः ।

स्वाभ्यन्तराभाववानित्यर्थः । स्नेहार्द्रा स्नेहेन प्रीत्या आद्री
कि
र्दां
क्लि
न्नाम् । 'र्दां सान्द्रं क्लिन्नम्' इत्यमरः । पुनः कीदृशोऽहम् ।

कीदृशीं त्वाम् । विगलितगतिः विगलिता नष्टा गतिः गमनं

यस्य सः । यद्वा विगलिता पापवाबाहुल्येन नष्टा गतिः पुण्यलोके
 

 
१ विदलित इति पाठः ।
 
३२
 
1917
 
॥ तंजस्वि
 
लावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute