This page has been fully proofread once and needs a second look.

इदानीमेवं जननि मनोरथदायिनि त्वयि सत्यां ब्रह्मादीनां
प्रयोजनमेव नास्तीत्याह--
 
विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो
सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति भवती ॥
 
विधत्तामिति । भो जननि, जनयति विश्वं उत्पादयती-
ति जननी विश्वमाता तत्संबोधनम् । जगति विश्वस्मिन्
कामानां मनोरथानाम् । कर्मणि षष्टी सवित्री उत्पादयित्री
यदि जननी विश्वमाता त्वं जागर्ति अस्ति तर्हि विधिः विद-
धाति विश्वमिति विधिः ब्रह्मा । 'विधाञो वेध चे’इति वेधा-
देशोऽसिप्रत्ययश्च । निरवधिसमाधिं निर्गतः अवधिर्यामादिरूपा
मर्यादा यस्य तादृशो यः समाधिः चित्तवृत्तिनिरोधः तं
निःशङ्क निर्गता शङ्का यस्मिन्कर्मणि यथा भवति तथा मयि
निर्व्यापारे जगदुत्पत्तिः कथं भविष्यतीति शङ्कारहितमि-
त्यर्थः । विधत्तां करोतु । हरिः हरति सर्वेषां दुःखमिति
'हरिः । 'अच इः' इत्यौणादिक इः । शेषे सुखं यथा स्यात्तथा
शेताम् निद्रां करोतु । सुखमित्यनेन निद्राभङ्गजनकः जग-
द्रक्षणरूपोपाधिर्मास्त्विति सूचितम् । हरः हरति विश्वमिति
हरः । पचाद्यच् । शिवः अविरतं निरन्तरं यथा स्यात्तथा नृत्यतु
नृत्यं करोतु । अविरतमित्यनेन मध्ये कार्यान्तरचित्ततया
नृत्यविरामो मास्त्विति सूचितम् । प्रायश्चित्तैः कृतं स्वहस्तेन