This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 
३१
 

 
इदानीमेवं जननि मनोरथदायिनि त्वयि सत्यां ब्रह्मादीनां

प्रयोजनमेव नास्तीत्याह-

विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो

सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।

कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः

सवित्री कामानां यदि जगति जागर्ति भवती ॥

विधत्तामिति । भो जननि, जनयति विश्वं उत्पादयती-

ति जननी विश्वमाता तत्संबोधनम् । जगति विश्वस्मिन्

कामानां मनोरथानाम् । कर्मणि पष्टी सवित्री उत्पादयित्री

यदि जननी विश्वमाता त्वं जागर्ति अस्ति तर्हि विधिः विद-

धाति विश्वमिति विधिः ब्रह्मा । 'विधाजो वेध चे इति वेधा-

देशोऽसिप्रत्ययश्च । निरवधिसमाधिं निर्गतः अवधिर्यामादिरूपा

मर्यादा यस्य तादृशो यः समाधिः चित्तवृत्तिनिरोधः तं

निःशङ्क निर्गता शङ्का यस्मिन्कर्मणि यथा भवति तथा मयि

निर्व्यापारे जगदुत्पत्तिः कथं भविष्यतीति शङ्कारहितमि-

त्यर्थः । विधत्तां करोतु । हरिः हरति सर्वेषां दुःखमिति

'हरिः । 'अच इः' इत्यौणादिक इः । शेषे सुखं यथा स्यात्तथा

शेताम् निद्रां करोतु । सुखमित्यनेन निद्राभङ्गजनकः जग-

द्रक्षणरूपोपाधिर्मास्त्विति सूचितम् । हरः हरति विश्वमिति

हरः । पचाद्यच् । शिवः अविरतं निरन्तरं यथा स्यात्तथा नृत्यतु

नृत्यं करोतु । अविरतमित्यनेन मध्ये कार्यान्तरचित्ततया

नृत्यविरामो मास्त्विति सूचितम् । प्रायश्चित्तैः स्वहस्तेन
 
FOUNDED
 
1917
 
तेजस्विनावधीत
 
Bhandarkar Oriental
Research Institute