This page has been fully proofread once and needs a second look.

इदानीं हरशिरसि निवसन्त्याः विष्णुपदोद्भूतायास्तवोप-
मेया कापि नदी नास्तीत्याह--
 
नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।
[^१]कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै-
स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ।।
 
नगेभ्य इति । भो जननि, कविभिः पण्डितैः । 'संख्या-
वान्पण्डितः कविः' इत्यमरः । तव तुलालेशः तुलाया उप-
माया: लेशः लवः । 'लवलेशकणाणवः' इत्यमरः । यस्यां
दीयेत तादृशी का वर्तते । अपितु न कापीत्यर्थः । ननु कृष्णा-
दयो बह्व्यो वर्तन्त इतिचेत्तत्राह-नगेभ्य इति । नगेभ्यः पर्वतेभ्यः
'नगोऽप्राणिष्वन्यतरस्या'मिति पाक्षिकत्वान्नञो‘ नलोपाभावः ।
यान्तीनामागच्छन्तीनां मध्ये 'यश्चच निर्धारणम्' इति
षष्ठी । कतमया तटिन्या पुराणां नगराणां संहर्तुर्दाहकस्य शिवस्य
कपर्द: जटाजूट: अधिरुरुहे अध्यारूढः । नगेभ्यो यान्तीनां
तटिनीनां मध्ये कया वा तटिन्या श्रीभर्तुर्विष्णोः पदकमलं
चरणपङ्कजं सलिलै: अक्षालि धौतमिति त्वं कथय । अर्थात्
अस्मान्प्रति वद । एवंच तत्कार्यकारणाभावात् काप्युपमेया
नेति भावः । इदमेव मनसि निधाय त्वामहं शरणं गत इत्या-
कूतम् । अक्षालीत्यत्र 'चिण्भावकर्मणोः' इति कर्मणि चिण् ।
आदौ पूर्वार्धं योजयित्वा पश्चादुत्तरार्धं योज्यम् ॥ २२ ॥
----------------------------
[^१] कया च इति पाठः ।