2023-03-25 18:04:27 by Rupa jha
This page has been fully proofread once and needs a second look.
मेया कापि नदी नास्तीत्याह-
नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।
कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै-
स्तुलालेशो यस्यां तव जननि दीयेत कविभिः
नगेभ्य इति । भो जननि, कविभिः पण्डितैः । 'संख्या-
चान्पण्डितः कविः' इत्यमरः । तव तुलालेशः तुलाया उप-
माया: लेशः लवः । 'लवलेशकणाणवः' इत्यमरः । यस्यां
दीयेत तादृशी का वर्तते । अपितुन कापीत्यर्थः । ननु कृष्णा-
दयो बह्वयो वर्तन्त इतिचेचत्राह-नगेभ्य इति । नगेभ्यः पर्वतेभ्यः
'नगोऽप्राणिष्वन्यतरस्या' मिति पाक्षिकत्वान्नजो नलोपाभावः ।
यान्तीनामागच्छन्तीनां मध्ये 'य
षष्ठी । कतमया तटिन्या पुराणां नगराणां संहर्तुर्दाहकस्य शिवस्य
कपर्द: जटाजूट: अधिरुरुहे अध्यारूढः । नगेभ्यो यान्तीनां
तटिनीनां मध्ये कया वा तटिन्या श्रीमतुर्विष्णोः पदकमलं
चरणपङ्कजं सलिलै: अक्षालि धौतमिति त्वं कथय । अर्थात्
असान्प्रति वद । एवंच तत्कार्यकारणाभावात् काप्युपमेया
नेति भावः । इदमेव मनसि निधाय त्वामहं शरणं गत इत्या-
आदौ पूर्वार्