This page has been fully proofread once and needs a second look.

३०
 
(
गङ्गालहरी ।
 

 
इदानीं हरशिरसि निवसन्त्याः विष्णुपदोद्भूतायास्तवोप-

मेया कापि नदी नास्तीत्याह-

नगेभ्यो यान्तीनां कथय तटिनीनां कतमया

पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।
कै

या वा श्रीभर्तुः पदकमलमक्षालि सलिलै

स्तुलालेशो यस्यां तव जननि दीयेत कविभिः

नगेभ्य इति । भो जननि, कविभिः पण्डितैः । 'संख्या-

चान्पण्डितः कविः' इत्यमरः । तव तुलालेशः तुलाया उप-

माया: लेशः लवः । 'लवलेशकणाणवः' इत्यमरः । यस्यां

दीयेत तादृशी का वर्तते । अपितुन कापीत्यर्थः । ननु कृष्णा-

दयो बह्वयो वर्तन्त इतिचेचत्राह-नगेभ्य इति । नगेभ्यः पर्वतेभ्यः

'नगोऽप्राणिष्वन्यतरस्या' मिति पाक्षिकत्वान्नजो नलोपाभावः ।

यान्तीनामागच्छन्तीनां मध्ये 'यतच निर्धारणम्'

षष्ठी । कतमया तटिन्या पुराणां नगराणां संहर्तुर्दाहकस्य शिवस्य

कपर्द: जटाजूट: अधिरुरुहे अध्यारूढः । नगेभ्यो यान्तीनां

तटिनीनां मध्ये कया वा तटिन्या श्रीमतुर्विष्णोः पदकमलं

चरणपङ्कजं सलिलै: अक्षालि धौतमिति त्वं कथय । अर्थात्

असान्प्रति वद । एवंच तत्कार्यकारणाभावात् काप्युपमेया

नेति भावः । इदमेव मनसि निधाय त्वामहं शरणं गत इत्या-

कृतम् । अक्षालीत्यत्र 'चिण्भावकर्मणोः' इति कर्मणि चिण् ।

आदौ पूर्वार्ध योजयित्वा पश्चादुत्तरार्ध योज्यम् ॥ २२ ॥
 
इति
 
Malay
 
FOUNDED
 
1917
 

 
 
१ कया च इति पाठः ।
 
STITU
 
POONA
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute