This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 
इदानीमुत्पत्तिस्थाननिवासस्थानव्यापारसौष्ठवेन जगदपेक्षया
तवोत्कर्षो वर्तत इत्याह -

समुत्पत्तिः पद्मारमणपदपद्मामलनखा-
न्निवास: कर्न्दपप्रतिभटजटाजूटभवने ।
अथायं व्यासङ्गो हतपतितनिस्तारणविधौ
न कस्मादुत्कर्षस्तव जननि जागर्ति जगति २१
समुत्पत्तिरिति । भो जननि, जगतः विश्वमात्तवोत्कर्षः
आधिक्यं कस्माद्धतोर्न जागर्तु नास्ताम् । अपितु सर्वस्माद्धेतोरुत्कर्षो
वर्तत इत्यर्थः । उत्कर्षप्रतिपादकहेतूनाह-समुत्पत्तिरिति । तव
समुत्पत्तिः सम्यगुत्पत्तिः उद्भवः पद्मारमणपदपद्मामलनखात्
पद्माया: लक्ष्म्याः 'लक्ष्मीः पद्मालया पद्मा' इत्यमरः । रमणः
पतिः विष्णुः तस्य पदं चरणकमलं तस्यामलनखः तस्माद्भवति ।
'जनिकर्तुः' इत्यपादानत्वम् । तव निवासस्थितिः कन्दर्पप्रति-
भटजटाजूटभवने कन्दर्पस्थानङ्गस्य । 'कन्दर्यो दर्पकोऽनङ्गः
इत्यमरः । प्रतिभटः प्रतिपक्षी शिवः तस्य जटाजूटः कपर्दः
स एव भवनं गृहं तत्र वर्तत इति शेषः । अथानन्तरं तवायं
व्यासङ्गः उद्योगः हतपतितनिस्तारणविधौ हताः शत्रुभिः
शस्त्रादिना मारिताः पतिताः प्रायश्चित्तिनः तेषां निस्तारणं
उद्धारः तस्य विधिः करणं तत्र वर्तत इति शेषः । 'विधि-
विधाने दैवे च' इत्यमरः ॥ २१ ॥
 

१ ङ्गः पतितजननिस्तार इति पाठः ।