This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 
२९
 

 
इदानीमुत्पत्तिस्थाननिवासस्थानव्यापारसौष्ठवेन जगदपेक्षया

तवोत्कर्षो वर्तत इत्याह -

समुत्पत्तिः पद्मारमणपदपद्मामलनखा-

न्निवास: कर्न्दपप्रतिभटजटाजूटभवने ।

अथायं व्यासंसङ्गो हतपतितनिस्तारणविधौ

न कस्मादुत्कर्षस्तव जननि जागर्ति जगति २१

समुत्पत्तिरिति । भो जननि, जगतः विश्वमात्तवोत्कर्षः

आधिक्यं कस्माद्धतोर्न जागर्तु नास्ताम् । अपितु सर्वस्माद्धेतोरुत्कर्षो

वर्तत इत्यर्थः । उत्कर्षप्रतिपादक हेतूनाह-समुत्पत्तिरिति । तव

समुत्पत्तिः सम्यगुत्पत्तिः उद्भवः पद्मारमणपदपद्मामलनखात्

पद्माया: लक्ष्म्याः 'लक्ष्मीः पद्मालया पद्मा' इत्यमरः । रमणः

पतिः विष्णुः तस्य पदं चरणकमलं तस्यामलनखः तस्माद्भवति ।

'जनिकर्तुः' इत्यपादानत्वम् । तव निवासस्थितिः कन्दर्पप्रति-

भटजटाजूटभवने कन्दर्पस्थानङ्गस्य । 'कन्दर्यो दर्पकोऽनङ्गः

इत्यमरः । प्रतिभटः प्रतिपक्षी शिवः तस्य जटाजूटः कपर्दः

स एव भवनं गृहं तत्र वर्तत इति शेषः । अथानन्तरं तवायं

व्यासङ्गः उद्योगः हतपतितनिस्तारणविधौ हताः शत्रुभिः

शस्त्रादिना मारिताः पतिताः प्रायश्चित्तिनः तेषां निस्तारणं

उद्धारः तस्य विधिः करणं तत्र वर्तत इति शेषः । 'विधि-

विधाने दैवे च' इत्यमरः ॥ २१ ॥
 

 
 
१ ङ्गः पतितजननिस्तार इति पाठः ।
 
INSTITUTE
 
POONA
 
FOUNDED
1917
 
॥ तेजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
 
Research Institute