This page has been fully proofread once and needs a second look.

जालं समूहः तत् । 'जालं समूह आनायः'इत्यमरः । जरयतु
नाशयतु । 'जॄ वयोहानौ' स्वार्थणिजन्तः । 'जनी जॄष्--' इति
मित्वे 'मितां हस्व' इत्युपधाह्वस्वः। कथंभूतं जलम् । म-
रुल्लीलालोलल्लहरिलुलिताम्भोजपटलीस्खलत्पांसुव्रातच्छुरणवि-
सरत्कौङ्कुमरुचि । मरुतः वायोः लीला विलासः तेन लोलन्त्य-
श्चञ्चला या लहर्यः वीचयः ताभि: लुलितानि लोलानि
यानि अम्भोजानि कमलानि तेषां पटली समूहः तस्याः
स्खलन्तः पतन्तो ये पांसवः रजांसि तेषां व्रातः समूहः तस्या:
छुरणं अङ्गलेपः तेन विसरन्ती प्रसरणशीला तादृशी कौङ्कुमरु-
चिर्दीप्तिर्यस्य तत् । कमलरजःपतनेनात्यन्तमारक्तमिति भावः ।
पुनः कीदृशम् । सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं सुराणां
इन्द्रादिदेवानां स्त्रियः इन्द्राण्यादयः तासां वक्षोजाः स्तनाः
तेभ्यः क्षरन् पतन् यः अगरुजम्बालः कृष्णचन्दनपङ्कः ।
'वंशिकागरुराजार्ह' इत्यमरः । 'निषद्वरस्तु जम्बालः पङ्कोऽस्त्री'
इत्यमरः । तेन जटिलं सजटम् । जटाशब्दात्तुदादित्वादिलच् ।
पुनः कथंभूतम् । जम्बालं: जम्बालः पङ्कः अस्ति यस्मिन् तत् ।
यद्वा जम्बालः शैवालं अस्ति यस्मिन् । यद्वा जम्बालाः मद-
नद्रुमाः । धत्तूरवृक्षा इत्यर्थः । ते सन्त्यस्मिन् तत् । तथाच
कोशः 'जम्बालः शैवले पङ्के जगले मदनद्रुमे' इति पक्षत्रयेऽपि
जम्बालशब्दान्मत्वर्थीयोऽर्शआद्यच् । मरुल्लीलालोलल्लहरीत्यत्र
'संहितायां 'तोर्ली'ति लः । कौङ्कुमरुच्योः समास कृत्वा‘
पश्चाद्विसरन्तीशब्देन समासे पुंवद्भावः । 'तालव्या अपि दन्याश्चा
शम्बशूकरपांशवः' इति द्विरूपकोशात्तालव्योपि पांशुशब्दः २०