This page has been fully proofread once and needs a second look.

२८
 
गङ्गालहरी ।
 

 
जालं समूहः तत् । 'जालं समूह आनायः' इत्यमरः । जरयतु

नाशयतु । 'जू वयोहानौ' स्वार्थणिजन्तः । 'जनी जप्जृष्' इति

मित्वे 'मिर्तातां इस्वः' इत्युपधाहस्खः ह्रस्वः। कथंभूतं जलम् । म

रुल्लीलालोलल्लहरिलुलिताम्भोजपटलीस्खलत्पांसुव्रातच्छुरणवि-

सरत्कौडमरुचि । मरुतः वायोः लीला विलासः तेन लोलन्त्य-

श्च
ञ्चला या लहर्यः वीचयः तामिःभि: लुलितानि लोलानि

यानि अम्भोजानि कमलानि तेषां पटली समूहः तस्याः

स्खलन्तः पतन्तो ये पांसवः रजांसि तेषां व्रातः समूहः तस्य

छुरणं अङ्गलेपः तेन विसरन्ती प्रसरणशीला तादृशी कौड्डमरु-

चिदीप्तिर्यस्य तत् । कमलरजःपतनेनात्यन्तमारक्तमिति भावः ।

पुनः कीदृशम् । सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं सुराणां

इन्द्रादिदेवानां स्त्रियः इन्द्राण्यादयः तासां वक्षोजाः स्तनाः

तेभ्यः क्षरन् पतन् यः अगरुजम्बालः कृष्णचन्दनपङ्कः ।

'वंशिकागरुराजार्ह' इत्यमरः । 'निषद्वरस्तु जम्बालः पङ्कोऽस्त्री'

इत्यमरः । तेन जटिलं सजटम् । जटाशब्दात्तुदादित्वादिलच् ।

पुनः कथंभूतम् । जम्बालं जम्बालः पङ्कः अस्ति यस्मिन् तत् ।

यद्वा जम्बालः शैवालं अस्ति यस्मिन् । यद्वा जम्बालाः मद-

नद्रुमाः । धत्तूरवृक्षा इत्यर्थः । ते सन्त्यस्मिन् तत् । तथाच

कोशः 'जम्बालः शैवले पड्के जगले मदनद्रुमे' इति पक्षत्रयेऽपि

जम्बालशब्दान्मत्वर्थीयोऽर्शआद्यच् । मरुडील्लीलालोलल्लहरीत्यत्र

'संहितायां 'तोलींर्ली 'ति लः । कौडमरुच्योः समास कृत्वा

पश्चाद्विसरन्तीशब्देन समासे पुंवद्भावः । 'तालव्या अपि दन्या
श्चा
शम्बशुकरपांशवः' इति द्विरूपकोशात्तालव्योपि पांशुशब्दः २०
 
NSTITUTE
 
Bhandarkar Oriental
Research Institute