This page has been fully proofread once and needs a second look.

'कारुण्यं करुणा घृणा' इत्यमरः । अपराधभवने मूलमाह ।
कथंभूतस्य मम । द्रविणमदिराघूर्णितदृशां द्रविणनेव मदिरा
उन्मादकारित्वात्, यद्वा द्रविणं च मदिरा च ताभ्यां घूर्णिते
घूर्णनयुक्ते । भ्रमिते इत्यर्थः । तादृश्यौ दृशौ येषां ते । 'दृक् दृष्टी
च' इत्यमरः । नाना अनेकेषाम् । अव्ययत्वात् षष्ठ्या लुक् । एता-
दृशानां महीपानां महीं पान्ति ते महीपाः राजानः तेषां अग्रे
नियतं नियतमेव धावंधावं धावित्वाधावित्वा 'धावु गतिशुध्द्यो:’
इति धातोः 'आमीक्ष्ण्ये णमुल् च' इति णमुलि द्वित्वम् । तरु-
णतरखेदस्य अतिशयेन तरुणः तरुणतरः तादृशः खेदः श्रमो
यस्य तस्य । यद्वा नानातरुणतरखेदस्येत्येकं पदम् । नाना अने-
कविषयः तरुणतरः खेदो यस्य । पुनः कथंभूतस्य । स्वहित-
शतहन्तुः स्वस्यैव हितानि पथ्यानि तेषां शतं तस्य हन्ता नाशकः
तस्य । अतएव पुनः कथंभूतस्य । जडधियः जडा धीर्यस्य
तस्य ॥ १९ ॥
 
पूर्वं दया विधेयेत्युक्तं, इदानीं किंविषयिणी दयेत्याकाङ्क्षायां
तव जलं मम पुनर्भवनमेव दूरीकरोत्विति प्रार्थयते--
 
मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली-
स्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि ।
सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं
जलं ते जम्बालं मम जननजालं जरयतु ॥ २०॥
 
मरुदिति । भो मातः, ते तव जलं मम जगन्नाथस्य
जननजालं जननस्य जन्मनः । 'जनुर्जननजन्मानी'त्यमरः । तस्य