This page has been fully proofread once and needs a second look.

पीयूपलहरीव्याख्यासहिता ।
 

 
'कारुण्यं करुणा घृणा' इत्यमरः । अपराधभवने मूलमाह ।

कथंभूतस्य मम । द्रविणमदिराघूर्णितदृशां द्रविण नेव मदिरा

उन्मादकारित्वात्, यद्वा द्रविणं च मदिरा च ताभ्यां घूर्णिते

घूर्णनयुक्ते । भ्रमिते इत्यर्थः । तादृश्यौ दृशौ येषां ते । 'दृक् दृष्टी

च' इत्यमरः । नाना अनेकेषाम् । अव्ययत्वात् षष्ठ्या लुकू । एता-

दृशानां महीपानां महीं पान्ति ते महीपाः राजानः तेषां अग्रे

नियतं नियतमेव धावंधावं धावित्वाधावित्वा 'धावु गतिशुद्ध्योः'

इति धातोः 'आमीक्ष्ण्ये णमुल् च' इति णमुलि द्वित्वम् । तरु

णतरखेदस्य अतिशयेन तरुणः तरुणतरः तादृशः खेदः श्रमो

यस्य तस्य । यद्वा नानातरुणतरखेदस्येत्येकं पदम् । नाना अने-

कविषयः तरुणतरः खेदो यस्य । पुनः कथंभूतस्य । स्वहित-

शतहन्तुः स्वस्यैव हितानि पथ्यानि तेषां शतं तस्य हन्ता नाशकः

तस्य । अतएव पुनः कथंभूतस्य । जडधियः जडा धीर्यस्य

तस्य ॥ १९ ॥
 
-
 

पूर्वं दया विधेयेत्युक्तं, इदानीं किंविषयिणी दयेत्याकाङ्क्षायां

तव जलं मम पुनर्भवनमेव दूरीकरोत्विति प्रार्थयते -

मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली-

स्खलत्पांसुत्रातच्छुरणविसरत्कौमरुचि ।

सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं
 
POONA
 

 
जलं ते जम्बालं मम जननजालं जरयतु २०

मरुदिति । भो मातः, ते तव जलं मम जगन्नाथस्य

जननजालं जननस्य जन्मनः । 'जनुर्जननजन्मानी' त्यमरः । तस्य
 
Bhandarkar Oriental
Research Institute