This page has been fully proofread once and needs a second look.

समाहारे द्विगुः । अमलपरिधानं अमलं निर्मलं च तत्परिधानं
चामलपरिधानं अधोंशुकम् । 'अन्तरीयोपसंव्यानपरिधाना-
न्यधोंशुके'इत्यमरः । यथा लोके कस्यचिद्वसनहीनस्य न शोभा
तथा एतद्विना त्रिजगत इत्याकूतम् । च पुनः बुद्धेर्मनीषायाः
'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । समा-
धानम् । नानादुष्टकल्पनानाशकमित्यर्थः । अथानन्तरं अधियां
निर्बुद्धीनां तिरोधानं अपिधानम् । तेषामदृश्यमिति भावः ।
'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । अथ श्रियां
समृद्धीनामाधानं स्थापकम् । मोक्षादिलक्ष्मीसंपादकमित्यर्थः ।
एतादृशगुणविशिष्टं तव वपुः शरीरम् । 'गात्रं वपुः संहननं
शरीरम्' इत्यमरः । नः अस्माकं तापं परिहरतु ॥ १८ ॥
 
इदानीं कार्यासक्ततया यस्तव वियोगो जातः अयं ममैवा-
पराध इत्याह--
 
पुरो धावंधावं द्रविणमदिराघूर्णितदृशां
महीपानां नानातरुणतरखेदस्य नियतम् ।
ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो
वियोगस्ते मातर्यदिह करुणातः क्षणमपि ॥ १९॥
 
पुर इति । भो मातः, मातृत्वेनावश्यमपराधः सोढव्य इत्या-
कूतम् । अयं ममैव । एवो निश्चयार्थः । मन्तुः अपराधः । अस्तीति
शेषः । कोऽसावित्याकाङ्क्षायामाह । इहेति । इह लोके तव
वियोगः स्नानाद्यसंबन्धः यत् अभूत् अतः कारणात् क्षणमपि
क्षणमात्रमपि करुणा दया त्वया मयि कर्तव्येति शेषः ।