This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 
D
 

 
समाहारे द्विगुः । अमलपरिधानं अमलं निर्मलं च तत्परिधानं

चामलपरिधानं अधोंशुकम् । 'अन्तरीयोपसंव्यानपरिधाना-

न्यधोंशुके' इत्यमरः । यथा लोके कस्यचिद्वसनहीनस्य न शोभा

तथा एतद्विना त्रिजगत इत्याकृतम् । च पुनः बुद्धेर्मनीषायाः

'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । समा-

धानम् । नानादुष्टकल्पनानाशकमित्यर्थः । अथानन्तरं अधियां

निर्बुद्धीनां तिरोधानं अपिधानम् । तेषामदृश्यमिति भावः ।

'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । अथ श्रियां

समृद्धीनामाधानं स्थापकम् । मोक्षादिलक्ष्मीसंपादकमित्यर्थः ।

एतादृशगुणविशिष्टं तव वपुः शरीरम् । 'गात्रं वपुः संहननं

शरीरम्' इत्यमरः । नः अस्माकं तापं परिहरतु ॥ १८ ॥

इदानीं कार्यासक्ततया यस्तव वियोगो जातः अयं ममैवा-

पराध इत्याह-

पुरो धावंधावं द्रविणमदिराघूर्णितदृशां

महीपानां नानातरुणतरखेदस्य नियतम् ।

ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो

वियोगस्ते मातर्यदिह करुणातः क्षणमपि १९

पुर इति । भो मातः, मातृत्वेनावश्यमपराधः सोढव्य इत्या-
कृ

कू
तम् । अयं ममैव । एवो निश्चयार्थः । मन्तुः अपराधः । अस्तीति

शेषः । कोऽसावित्याकाङ्क्षायामाह । इहेति । इह लोके तव

वियोगः स्नानाद्यसंबन्धः यत् अभृत् अतः कारणात् क्षणमपि

क्षणमात्रमपि करुणा दया त्वया मयि
 
कर्तव्येति शेषः ।
 
स्विनावध
 
Oriental
Research Institute
 
FOUNDE
1917