This page has been fully proofread once and needs a second look.

प्रायश्चित्तशब्दश्चायं पापक्षयार्थे नैमित्तिके कर्मविशेषे रूढ
इत्याहुः संप्रदायविदो निबन्धकारादयः । योगस्त्वङ्गिरसा
दर्शित:--'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो
निश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते ॥' अस्सार्थ:--अनुष्ठितेन
द्वादशवार्षिकादिना अवश्यं पापं निवर्तत इति विश्वासो
निश्चयः तेन संयुक्तं व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तमित्यलं
विस्तरेण ॥ १७ ॥
 
इदानीमनेकगुणविशिष्टत्वेन पापहरणक्षमं तव वपुर्मम पापं
नाशयत्विति प्रार्थयते--
 
निधानं धर्माणां किमपि च विधानं नवमुदा
प्रधानं तीर्थानाममलपरिधानं त्रिजगतः ।
समाधानं बुद्धेरथ खलु तिरोधानमधियां
श्रियामाधानं नः परिहरतु तापं तव वपुः ॥ १८॥
 
निधानमिति । भो जननि, धर्माणां वेदेन प्रयोजनमुद्दिश्य
विधीयमानार्थानाम् । तदुक्तं जैमिनिना--'चोदनालक्षणोऽर्थो
धर्मः' इति चोदनालक्षणार्था धर्मास्तेषां निधानं स्थानम् ।
निधीयते स्थाप्यते यस्मिन्निति धाधातोः 'करणाधिकरणयोश्च'
इति ल्युट् । च पुनः नवमुदां नवाश्च ता मुदश्च तासां नूतन-
हर्षाणां किमपि विधानं जनकम् । गङ्गादर्शनेन विलक्षणा हर्षा
जायन्त इत्यनुभवसिद्धम् । 'कर्तृकर्मणोः' इति कर्मणि षष्ठी
उभयत्र । च पुनः तीर्थानां प्रधानम् । च पुनः त्रिजगतः
त्रयाणां जगतां समाहारां त्रिजगत् तस्य । 'तद्धितार्थ’इति