This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 
२५
 

 
प्रायश्चित्तशब्दश्चायं पापक्षयार्थे नैमित्तिके कर्मविशेषे रूढ

इत्याहुः संप्रदायविदो निबन्धकारादयः । योग स्त्वङ्गिरसा

दर्शित :- 'प्रायो नाम तपः प्रोक्तं चित्तं निचयश्च उच्यते । तपो
निश्र

निश्च
यसंयुक्तं प्रायश्चित्तं तदुच्यते ॥' अस्सार्थ:-अनुष्ठितेन

द्वादशवार्षिकादिना अवश्यं पापं निवर्तत इति विश्वासो

निश्रयः तेन संयुक्तं व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तमित्यलं

विस्तरेण ॥ १७ ॥
 

 
इदानीमनेकगुणविशिष्टत्वेन पापहरणक्षमं तव वपुर्मम पापं

नाशयत्विति प्रार्थयते -
 

 
निधानं धर्माणां किमपि च विधानं नवमुदा

प्रधानं तीर्थानाममलपरिधानं त्रिजगतः ।

समाधानं बुद्धेरथ खलु तिरोधानमधियां

श्रियामाधानं नः परिहरतु तापं तव वपुः १८

निधानमिति । भो जननि, धर्माणां वेदेन प्रयोजनमुद्दिश्य

विधीयमानार्थानाम् । तदुक्तं जैमिनिना- 'चोदनालक्षणोऽर्थो

धर्मः' इति चोदनालक्षणार्था धर्मास्तेषां निधानं स्थानम् ।

निधीयते स्थाप्यते यसिन्निति धाधातोः 'करणाधिकरणयोच'
श्च'
इति ल्युट् । च पुनः नवमुदां नवाश्च ता मुदश्च तासां नूतन-

हर्षाणां किमपि विधानं जनकम् । गङ्गादर्शनेन विलक्षणा हर्षा

जायन्त इत्यनुभवसिद्धम् । 'कर्तृकर्मणोः' इति कर्मणि षष्ठी

उभयत्र । च पुनः तीर्थानां प्रधानम् । च पुनः त्रिजगतः

त्रयाणां जगतां समाहारां त्रिजगत् तस्य । 'तद्भितार्थ इति
 

 
गङ्गा, ३
 
FO