This page has been fully proofread once and needs a second look.

कृतेति । भो जननि, कृतक्षुद्रैनस्कान् कृतानि क्षुद्राणि
अल्पानि पलाण्डुभक्षणादीनि एनांसि पापानि यैस्ते तान् ।
'शेषद्विभाषा'इति कप् । अथ पापाचरणानन्तरं झटिति शीघ्रं
संतप्तमनसः संतप्तं पश्चात्तापयुक्तं मनो येषां ते तान् एता-
दृशान्नरान् समुद्धर्तुं आचरितपापात् दूरीकर्तु त्रिभुवनतले
त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'तद्धितार्थ' इति समा-
हारे द्विगुः । पात्रादित्वात्स्त्रीत्वाभावः । तस्य तलं तत्र तीर्थ-
निवहाः तीर्थानां गोदावर्यादितीर्थानां निवहाः समूहाः सन्ति
वर्तन्ते । भो जननि, प्रायश्चित्तप्रसरणपथातीतचरितान् प्राय-
श्चित्तस्य पापनाशनसमर्थधर्मविशेषस्य प्रसरणमाचरणं तस्य
पन्था मार्ग: । 'वाटः पन्थाश्च मार्गश्च'इति त्रिकाण्डमण्डनः ।
'ऋक्पूरब्धू'- '’--’इति समासान्तोऽप्रत्ययः । प्रायश्चित्तप्रसरणपथान्
अतीतं अतीत्य गतं चरितं येषां ते । तानपि बहुकालं बुद्धि-
पूर्वकं महत्पापाचरणेनाविद्यमानप्रायश्चित्तानपीत्यर्थः । उक्तं-
च मुद्गलाचार्यै:--'सुकृतिन ईषत्पापे प्रायश्चित्तं रघूत्तम प्रोक्तम् ।
अपयाति मामुदीक्ष्य प्रायस्तदपीह गौरिव व्याघ्रम्' इति ।
एतादृशानपि नरान् दूरीकर्तुं आचरितपापादुद्धर्तुं त्वमिव त्वत्स-
दृशी त्वमेव विजयसे । अत्रोपमानोपमेयत्वं गङ्गाया एव ।
तत्फलं तु अन्या त्वत्सदृशी नास्तीति । अतएवात्रानन्वया-
लंकारः । तदुक्तम् – -'उपमानोपमेयत्वं यदैकस्यैव वस्तुनः । इन्दु-
रिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥ इति । प्रायश्चित्तशब्दः
'प्रायस्य चित्तिचित्तयोः' इति गणपठितसूत्रेण सुटि निष्पन्नः
स च रूढ्या योगेन च पापनाशनसमर्थं विशेषधर्ममाचष्टे ।