This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
कृतेति । भो जननि, कृतक्षुद्रैनस्कान् कृतानि क्षुद्राणि

अल्पानि पलाण्डुभक्षणादीनि एनांसि पापानि यैस्ते तान् ।

'शेपाद्विभाषा' इति कप् । अथ पापाचरणानन्तरं झटिति शीघ्रं

संतप्तमनसः संतप्तं पश्चात्तापयुक्तं मनो येषां ते तान् एता-

इशान्नरान् समुद्धर्तुतुं आचरितपापात् दूरीकर्तु त्रिभुवनतले

त्रयाणां भुवनानां समाहारखिस्त्रिभुवनम् । 'तद्धितार्थ' इति समा-

हारे द्विगुः । पात्रादित्वात्स्त्रीत्वाभावः । तस्य तलं तत्र तीर्थ-

निवहाः तीर्थानां गोदावर्यादितीर्थानां निवहाः समूहाः सन्ति

वर्तन्ते । भो जननि, प्रायश्चित्तप्रसरणपथातीतचरितान् प्राय-

चित्तस्य पापनाशनसमर्थधर्म विशेषस्य प्रसरणमाचरणं तस्य

पन्था मार्ग: । 'वाटः पन्थाश्च मार्गश्च' इति त्रिकाण्डमण्डनः ।

'ऋक्पूरब्धू'- 'इति समासान्तोऽप्रत्ययः । प्रायश्चित्तप्रसरणपथान्

अतीतं अतीत्य गतं चरितं येषां ते । तानपि बहुकालं बुद्धि-

पूर्वकं महत्वापापाचरणेनाविद्यमानप्रायश्चित्तानपीत्यर्थः । उक्तं

च मुद्गलाचार्यै:-'सुकृतिन ईत्पापे प्रायश्चित्तं रघूत्तम प्रोक्तम् ।

अपयाति मामुदीक्ष्य प्रायस्तदपीह गौरिव व्याघ्रम्' इति ।

एतादृशानपि नरान् दूरीकर्तुं आचरितपापादुद्धर्तुं त्वमिव त्वत्स-

दृ
शी त्वमेव विजयसे । अत्रोपमानोपमेयत्वं गङ्गाया एव ।

तत्फलं तु अन्या त्वत्सदृशी नास्तीति । अतएवात्रानन्वया-

लंकारः । तदुक्तम् – 'उपमानोपमेयत्वं यदैकस्यैव वस्तुनः । इन्दु-

रिन्दुरिव श्रीमा नित्यादौ तदनन्वयः ॥ इति । प्रायश्चित्त शब्दः

'प्रायस्य चित्तिचित्तयोः' इति गणपठितसूत्रेण सुदि टिनिष्पन्नः

च रूढ्या योगेन च पापनाशनसमर्थं विशेषधर्ममाचष्टे ।
 
-
 
Bhandarkar Oriental
Research Institute
 
२४