This page has been fully proofread once and needs a second look.

क्षणः महिमा माहात्म्यं जगति जयति सर्वोत्कर्षेण वर्तते ।
सगरजाः सगरराजपुत्राः अनवद्यद्युतिभृतः सन्तः । न अवद्या
रर्ह्या अनवद्या स्तुत्या । 'अवद्यपण्य--'इति सूत्रेण गर्हायां अब-
द्येति निपातितम् । तादृशी चासौ द्युतिश्च तां विभ्रति ते एता-
दृशाः सन्तः । अतएव स्फुटपुलकसान्द्राः सन्तः स्फुटा:
प्रकटा ये पुलकाः रोमाञ्चाः तैः सान्द्राः निबिडाः सन्तः
महिमानं अद्यापि मुदा प्रीत्या गायन्ति । वदन्तीत्यर्थः । किं
कृत्वा । द्यु्तलं दिवस्तलं 'दिव उत्' इत्युत् । 'द्योदिवौ द्वे स्त्रियाम्'
इत्यमरः । समासाद्य अधिष्ठित्य । सगरेण हि अश्वमेधकरणाय
अश्वो विनिर्मुक्तः । तत्संरक्षणाय स्वपुत्रा नियुक्ताः । स चाश्व;
इन्द्रेण चौर्येण पाताले नीतः । सगरपुत्रा अपि तदानयनाय
तत्र गताः ते सर्वे कपिलेन निर्दग्धाः पश्चात् भगीरथेन स्वर्गात्
गङ्गामानीय पाविता इति स्पष्टं रामायणादौ ॥ १६ ॥
 
इदानीं स्वल्पपापिनां दोषापनुत्तये त्रिजगति गोदावर्यादीनि
बहूनि तीर्थानि सन्ति । अतीतप्रायश्चित्तानां तु दोषहरणे
त्वत्सदृशी त्वमेव समर्थत्याह--
 
[^१] कृतक्षुद्रैनस्कानथ झटिति संतप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्चित्तप्रसरणपथातीतचरितान्
[^२]नरान्दूरीकर्तुं [^३]त्वमिव जननि त्वं विजयसे ॥ १७॥
------------------------------------------
[^१] क्षुद्राघौघान् इति पाठः ।
[^२] ऊरीकर्तुं इति पाठस्तत्राङ्गीकर्तुमित्यर्थः ।
[^३] त्वमिह खलु जागर्षि जगति इति पाठः ।