2023-03-25 17:45:03 by Rupa jha
This page has been fully proofread once and needs a second look.
पीयूषलहरीव्याख्यासहिता ।
सगरजाः सगरराजपुत्राः अनवद्यद्युतिभृतः सन्तः । न अवद्या रर्ह्या अनवद्या स्तुत्या । 'अवद्यपण्य-' इति सूत्रेण गर्हायां अव-
दृशाः सन्तः । अतएव स्फुटपुलकसान्द्राः सन्तः स्फुटा:
प्रकटा ये पुलकाः रोमाञ्चाः तैः सान्द्राः निबिडाः सन्तः
महिमानं अद्यापि मुदा प्रीत्या गायन्ति । वदन्तीत्यर्थः । किं
कृत्वा । द्
इत्यमरः । समासाद्य अधिष्ठित्य । सगरेण हि अश्वमेधकरणाय
अश्वो विनिर्मुक्तः । तत्संरक्षणाय स्वपुत्रा नियुक्ताः । स चाश्व;
इन्द्रेण चौर्येण पाताले नीतः । सगरपुत्रा अपि तदानयनाय
तत्र गताः ते सर्वे कपिलेन निर्दग्धाः पश्चात् भगीरथेन स्वर्गात्
गङ्गामानीय पाविता इति स्पष्टं रामायणादौ ॥ १६ ॥
-
इदानीं स्वल्पपापिनां दोषापनुत्तये त्रिजगति गोदावर्यादी
बहूनि तीर्थानि सन्ति । अतीतप्रायश्चित्तानां तु दोषहरणे
त्वत्सदृशी त्वमेव समर्थत्याह-
कृतक्षुद्रैनस्कानथ झटिति संतप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्चित्तप्रसरणपथातीतचरितान्
नरान्दूरीकर्तुं त्वमिव जननि त्वं विजयसे १७
१ क्षुद्राघौघान् इति पाठः । २ ऊरीकर्तुं इति पाठस्तत्राशकर्तुमित्यर्थः ।
३ त्वमिह खलु जागर्षि जगति इति पाठः ।