This page has been fully proofread once and needs a second look.

मार्गः अस्ताऽविद्यमाना अखिलदुरितनिस्तारसरणिर्येषां तान् ।
पापबाहुल्येनाविद्यमानप्रायश्चित्तादीनित्यर्थः । निलिम्पैर्देवैः ।
'अनुपसर्गाल्लिम्पे'ति सूत्रस्थेन 'नौलिम्पेः संज्ञाया' मितिवार्तिकेन
शः । मुक्तान् स्वहस्तेन परित्राणाभावात् । अपिच निरयान्तः निर-
यस्य नरकस्य अन्तः मध्ये । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः
स्त्रिया'मित्यमरः । निपततः नितरां पतन्ति ते निपतन्तः तान्
एतादृशान् नरान् मनुष्यान् त्रातुं त्वं परमं उत्कृष्टं भेषजं
औषधमसि । 'भेषजौषधभैषज्यानि इत्यमरः । एवंच सर्वभेषजं
त्वं सर्वान्तर्गतस्य ममापि भेषजं भविष्यस्येवेति भावः ॥ १५ ॥
 
इदानीं कपिलमुनिनिर्दग्धाः सगरजाः सगरपुत्राः त्वत्संबन्ध-
वशात् स्वर्गे दिव्यदेहधारिणः अद्यापि तव महिमानं अहो
धन्या जाह्नवी निधनं गता अपि वयं यत्सङ्गवशादीदृशा जाता
इत्याकारकं गायन्तीत्याह--
 
स्वभावस्वच्छानां सहजशिशिराणामयमपा-
मपारस्ते मातर्जयति महिमा कोऽपि जगति ।
मुदा यं गायन्ति द्युतलमनवद्यद्युतिभृतः
समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥
 
स्वभावेति । भो मातः, स्वभावस्वच्छानां स्वभावेन निसर्गेण
नतु कृत्रिमेण । 'स्वरूपं च स्वभावश्च निसर्गः' इत्यमरः ।
स्वच्छानां निर्मलानां सहजमनायासेन मणिकाद्यसंक्षेपेण शिशि-
राणां शीतलानाम् । उक्तंच कालिदासेन 'शैत्यं हि यत्सा प्रकृ-
तिर्जलस्य' इति । एतादृशीनां ते आपां वाराम् आप: स्त्री
भूम्नि वार्वारि' इत्यमरः । अपारः अमर्यादः अयं कोऽपि विल-