This page has been fully proofread once and needs a second look.

२२
 

 
गङ्गालहरी ।
 

 
मार्गः अस्ताऽविद्यमाना
 
अखिलदुरित निस्तारसरणिर्येषां तान् ।

पापबाहुल्येनाविद्यमान प्रायश्चित्तादीनित्यर्थः । निलिम्पैर्देवैः ।

'अनुपसर्गाल्लिम्पे'ति सूत्रस्थेन 'नौलिम्पेः संज्ञाया' मितिवार्तिकेन

शः । मुक्तान् स्वहस्तेन परित्राणाभावात् । अपिच निरयान्तः निर

यस्य नरकस्य अन्तः मध्ये । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः

स्त्रिया'मित्यमरः । निपततः नितरां पतन्ति ते निपतन्तः तान्

एतादृशान् नरान् मनुष्यान् त्रातुं त्वं परमं उत्कृष्टं भेषजं

औषधमसि । 'भेषजौषधभैषज्यानि इत्यमरः । एवंच सर्वभेपर्ज
षजं
त्वं सर्वान्तर्गतस्य ममापि भेषजं भविष्यस्येवेति भावः ॥१५॥

इदानीं कपिलमुनि निर्दग्धाः सगरजाः सगरपुत्राः त्वत्संबन्ध-

वशात् स्वर्गे दिव्यदेहधारिणः अद्यापि तव महिमानं अहो

धन्या जाह्नवी निधनं गता अपि वयं यत्सङ्गवशादीदृशा जाता

इत्याकारकं गायन्तीत्याह-

स्वभावस्खच्छानां सहजशिशिराणामयमपा-

मपारस्ते मातर्जयति महिमा कोऽपि जगति ।

मुदा यं गायन्ति द्युतलमनवद्यद्युतिभृतः

समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥

स्वभावेति । भो मातः, स्वभावस्वच्छानां स्वभावेन निसर्गेण

नतु कृत्रिमेण । 'स्वरूपं च स्वभावश्च निसर्गः' इत्यमरः ।

स्वच्छानां निर्मलानां सहजमनायासेन मणिकाद्यसंक्षेपेण शिशि-

राणां शीतलानाम् । उक्तंच कालिदासेन 'शैत्यं हि यत्सा प्रकृ
तिर्जलस्य' इति । एतादृशीनां ते अपां वाराम् आपः स्त्री
भू

भू्म्
नि वार्वारि' इत्यमरः । अपारः अमर्यादः अयं
 
॥ तंजस्
कोऽपि विनमस्तु ॥