This page has been fully proofread once and needs a second look.

गुणानामेव दयादाक्षिण्यादीनामेवायं दोषः परिणतः प्रसृतः ।
निर्लोभतया कदाप्यप्रतिग्रहकर्ता शिवः तव गुणलोभवशेनैव
अपूर्वं प्रतिग्रहं चकारेति भावः ॥ १४ ॥
 
इदानीं सर्वेषां रक्षणक्षमं परमौषधं त्वमसीत्याह--
 
जडानन्धान्पङ्गून्प्रकृतिबधिरानुक्तिविकलान्
ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् ।
निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥ १५ ॥
 
जडानिति । भो अम्ब, इह कलौ जडान् अज्ञान् । क्रियासु
मन्दानित्यर्थः । 'जडोऽज्ञः' इत्यमरः । अन्धान् चक्षुरिन्द्रिय-
हीनान् । पङ्गून्पादगतिहीनान् । प्रकृतिबधिरान् प्रकृत्या स्वभा-
वेन बधिरान् श्रोत्रेन्द्रियहीनान् । शब्दश्रवणासमर्थानित्यर्थः ।
उक्तिविकलान् उक्तिभिर्वचनैर्विकला हीनाः तान् । 'पूर्वसदृशे'ति
समासः । 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः ।
वचधातो: क्तिनि 'वचिस्वपी'ति संप्रसारणम् । ग्रहग्रस्तान्
ग्रहैरादित्यादिनवग्रहैर्ग्रस्ता: कवलिताः । कृतपीडा इति यावत् ।
तदुक्तं ज्योतिःशास्त्रे--'स्वर्क्षाच्चन्द्रखलास्त्रिखारिषु शुभा: सप्ता-
द्यगोऽब्जः पुनश्चापुत्राव्द्ययधर्ममृत्युषु कविः स्वास्तत्रिकोणे गुरुः ।
सौम्यो व्यन्त्यसमेऽखिला भवगताः शुक्ले नवेषुद्विगश्चन्द्रोऽथो
निजभाद्द्युभं नवहृतं त्र्यद्रीषुशेषं न सत् ॥’ इति । अस्ताखि-
लदुरितनिस्तारसरणीन् । अखिलानि च तानि दुरितानि च
पापानि तेषां निस्तारणं नाशानं तस्य सरणिः प्रायश्चित्ताद्याचरण-