This page has been fully proofread once and needs a second look.

२१
 
पीयूपलहरीव्याख्यासहिता ।
 
२१
 

 
गुणानामेव दयादाक्षिण्यादीनामेवायं दोषः परिणतः प्रसृतः ।

निर्लोभतया कदाप्यप्रतिग्रहकर्ता शिवः तव गुणलोभवशेनैव

अपूर्व प्रतिग्रहं चकारेति भावः ॥ १४ ॥
 

 
इदानीं सर्वेषां रक्षणक्षमं परमौषधं त्वमसीत्याह-

जडानन्धान्पङ्गन्प्रकृतिवधिरानुक्तिविकलान्

ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् ।

निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो
 

नरानम् त्रातुं त्वमिह परमं भेषजमसि ॥१५॥

जडानिति । भो अम्ब, इह कलौ जडान् अज्ञान् । क्रियासु

मन्दानित्यर्थः । 'जडोऽज्ञः' इत्यमरः । अन्धान् चक्षुरिन्द्रिय-

हीनान् । पन्गुन्पादगतिहीनान् । प्रकृतिबधिरान् प्रकृत्या स्वभा

वेन बधिरान् श्रोत्रेन्द्रियहीनान् । शब्दश्रवणासमर्थानित्यर्थः ।

उक्तिविकलान् उक्तिभिर्वचनैर्विकला हीनाः तान् । 'पूर्वसदृशे' ति

समासः । 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः ।

वचधातो: क्तिनि 'वचिस्वपी' ति संप्रसारणम् । ग्रहग्रस्तान्

ग्रहैरादित्यादिनवग्रहग्रस्ताः कवलिताः । कृतपीडा इति यावत् ।

तदुक्तं ज्योतिः शास्त्रे - 'स्वर्शाच्चन्द्रखलाखिखारिषु शुभा: सप्ता-

धगोऽब्जः पुनश्चापुत्राव्ययधर्ममृत्युषु कविः स्वास्तत्रिकोणे गुरुः ।

सौम्यो व्यन्त्यसमेऽखिला भवगताः शुक्ले नवेषुद्विगचन्द्रोऽथो

निजभायभं नवहृतं ध्यद्रीपुशेषं न सत् ॥" इति । अस्ता खि-

लदुरितनिस्तारसरणीन् । अखिलानि च तानि दुरितानि च

पापानि तेषां निस्तारणं नाशानं तस्य सरणिः प्रायश्चित्तायाचरण-
1917
 
Bhandarkar Oriental
Research Institute