This page has been fully proofread once and needs a second look.

त्यसुन् । 'कलुषं वृजिनैनोघमि' त्यमरः । हरन्ती नाशयन्ती
एका सती कदापि कस्मिन्नपि काले अश्रान्ताऽखिन्ना एतादृशी
त्वं जगति विश्वस्मिन् विजयसे सर्वोत्कर्षेण वर्तसे । लोके क-
श्चन कदाचित् एवं कार्यं यदि करोति तदा श्रान्तो भवति ।
बहुभिर्वा एकं महत्कार्यं कृतं चेत् सर्वेऽपि श्रान्ता भवन्ति ।
त्वं तु असहायाऽद्वितीया सर्वेषां पापानि निरन्तरं हरन्त्यपि
न श्रान्तेति ममापि पापं दूरीकरिष्यस्येवेति भावः ॥ १३ ॥
इदानीं तव गुणानामेवायं दोषः यत्पृथिवीतले शोकनाशाय
स्वर्लोकात्पतन्त्यास्तव निर्लोभोऽपि शिवः कपर्दस्थापनमिषेण
प्रतिग्रहं चकारेत्याह-
 
स्खलन्ती स्वर्लोकादवनितलशोकापहृतये
जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा ।
अये निर्लोभानामपि मनसि लोभं जनयतां
गुणानामेवायं तव जननि दोषः परिणतः १४
स्खलन्तीति । भो भागीरथि, अवनितलशोकापहृतवे
अवन्याः पृथिव्याः तलं स्वरूपम् । 'अधःस्वरूपयोरस्त्री तलमि'-
त्यमरः । तत्र यः शोकः तस्यापह्रतिर्नाशः तस्यै । अपहृतिं कर्तु-
मित्यर्थः । स्वर्लोकात् स्खलन्ती पतन्ती त्वं पुरभिदा शिवेन
जटाजूटग्रन्थौ जटाजूटस्थ कपर्दस्य ग्रन्थिस्तत्र यत् विनिब्रद्धा
विशेषेण निरन्तरं बद्धासि । उपसर्गद्वयं कदापि अन्यत्र गमना-
भावं बोधयति । अये जननि, निर्लोभानामपि निर्गतः लोभो
येषां तेषामपि मनसि चित्ते लोभं इच्छां जनयतां कुर्वतां तव