This page has been fully proofread once and needs a second look.

२०
 

 
गङ्गालहरी ।
 

 
त्यसुन् । 'कलुषं वृजिनैनोघमि' त्यमरः । हरन्ती नाशयन्ती

एका सती कदापि कस्मिन्नपि काले अश्रान्ताऽखिन्ना एतादृशी

त्वं जगति विश्वस्मिन् विजयसे सर्वोत्कर्षेण वर्तसे । लोके क

श्न कदाचित् एवं कार्य यदि करोति तदा श्रान्तो भवति ।

बहुभिर्वा एकं महत्कार्य कृतं चेत् सर्वेऽपि श्रान्ता भवन्ति ।

त्वं तु असहायाऽद्वितीया सर्वेषां पापानि निरन्तरं हरन्त्यपि

न श्रान्तेति ममापि पापं दूरीकरिष्यस्येवेति भावः ॥ १३ ॥

इदानीं तव गुणानामेवायं दोषः यत्पृथिवीतले शोकनाशाय

स्वर्लोकात्पतन्त्यास्तव निर्लोभोऽपि शिवः कपर्दस्थापनमिषेण

प्रतिग्रहं चकारेत्याह-

स्खलन्ती खर्लोकादवनितलशोकापहृतये
 

जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा ।

अये निर्लोभानामपि मनसि लोभं जनयतां

गुणानामेवायं तव जननि दोषः परिणतः १४

स्खलन्तीति । भो भागीरथि, अवनितलशोकापहृतवे

अवन्याः पृथिव्याः तलं स्वरूपम् । 'अधःखरूपयोरस्त्री तलमि'-

त्यमरः । तत्र यः शोकः तस्यापहतिर्नाशः तस्यै । अपहृतिं कर्तु-

मित्यर्थः । स्वर्लोकात् स्खलन्ती पतन्ती त्वं पुरभिदा शिवेन

जटाजूटग्रन्थौ जटाजूटस्थ कपर्दस्य ग्रन्थिस्तत्र यत् विनिब्रद्धा

विशेषेण निरन्तरं बद्धासि । उपसर्गद्वयं कदापि अन्यत्र गमना-

भावं बोधयति । अये जननि, निर्लोभानामपि निर्गतः लोभो

येषां तेषामपि मनसि चित्ते लोभं इच्छां जनयतां कुर्वतां तव