This page has been fully proofread once and needs a second look.

अनुसरणं विहाय त्यक्त्वा यां गङ्गां शिरसि नियतं निरन्तरं
यथा स्यात्तथा धारयति बिभर्ति । स्वार्थे णिच् । सपत्नीभूतगङ्गाया
मस्तकधारणेन जातकोपाया अपि पार्वत्याः सान्त्वनादिकं वि-
हाय अधिकगुणवतीं त्वामेव शिरसि बिभर्तीति भावः । लोकेऽपि
सर्वत्राधिकगुणवतो हीरकस्य मस्तकधारणं प्रसिद्धमेव ॥ १२ ॥
 
इदानीमुन्मत्तादिभिरपि विनिन्द्यानि परिहार्याणि अवाच्यानि
यानि पापानि तन्नाशिनी त्वमेवेत्याह--
 
विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै-
रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः ।
हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ १३
 
विनिन्द्यानीति । भो गङ्गे, उन्मत्तैरविचारकारिभिः वि-
शेषेण निन्द्यानि निन्दितुं योग्यानि । अपिच पतितैरप्रायश्चि-
त्तादिभिः परिहार्याणि त्याज्यानि । व्रात्यैः गर्भाधानादिसं-
स्कारहीनैः । 'व्रात्यः संस्कारहीनः स्यादि'त्यमरः । अवाच्यानि
वक्तुमयोग्यानि । पिशुनैः कर्णेजपैः । 'कर्णेजपः सूचकः स्या-
त्पिशुनो दुर्जनः खलः' इत्यमरः । सपुलकं सरोमाञ्चं यथा
स्यात्तथा अपास्यानि त्याज्यानि । एतादृशानि कियतां किं
परिमाणमेषां ते कियन्तः तेषाम् । 'किम; संख्यापरिमाणे
डतिचे'ति वतुप् । 'किमिदंभ्यां वो घः' । बहूनामित्यर्थः ।
लोकानां एनांसि यन्त्यधो एभिस्तानि, यन्ति गच्छन्ति प्राय-
श्चित्तादिना वा तानि एनांसि कलुषाणि । 'इण आगसी'-