This page has been fully proofread once and needs a second look.

पीयूपलहरी व्याख्यासहिता ।
 
१९
 

 
अनुसरणं विहाय त्यक्त्वा यां गङ्गां शिरसि नियतं निरन्तरं

यथा स्यात्तथा धारयति विभर्ति । स्वार्थे णिच् । सपत्नी भूतगङ्गाया

मस्तकधारणेन जातकोपाया अपि पार्वत्याः सान्त्वनादिकं वि-

हाय अधिकगुणवतीं त्वामेव शिरसि बिभर्तीति भावः । लोकेऽपि

सर्वत्राधिकगुणवतो हीरकस्य मस्तकधारणं प्रसिद्धमेव ॥ १२ ॥

इदानीमुन्मत्तादिभिरपि विनिन्द्यानि परिहार्याणि अवाच्यानि

यानि पापानि तन्नाशिनी त्वमेवेत्याह-

विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै-

रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः ।

हरन्ती लोकानामनवरतमेनांसि कियतां

कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे १३

विनिन्द्यानीति । भो गङ्गे, उन्मत्तैरविचारकारिभिः वि-

शेषेण निन्द्यानि निन्दितुं योग्यानि । अपिच पतितैरप्रायश्चि

त्
तादिभिः परिहार्याणि त्याज्यानि । वाव्रात्यैः गर्भाधानादिसं-

स्कारहीनैः । 'व्रात्यः संस्कारहीनः स्यादि' त्यमरः । अवाच्यानि

वक्तुमयोग्यानि । पिशुनैः कर्णेजपैः । 'कर्णेजपः सूचकः स्या-

त्पिशुनो दुर्जनः खलः' इत्यमरः । सपुलकं सरोमाञ्चं यथा

स्यात्तथा अपास्यानि त्याज्यानि । एतादृशानि कियतां किं

परिमाणमेषां ते कियन्तः तेषाम् । 'किम; संख्यापरिमाणे

डतिचे' ति वतुप् । 'किमिदंभ्यां वो घः' । बहनामित्यर्थः ।

लोकानां एनांसि यन्त्यधो एभिस्तानि, यन्ति गच्छन्ति प्राय-

चित्तादिना वा तानि एनांसि कलुपाणि । 'इणू आगुसी'-
1917
 
Bhandarkar Oriental
Research Institute
 
॥ तंजस्त्रि नाथ