This page has been fully proofread once and needs a second look.

नृणामीक्षामात्रादपि परिहरन्त्या भवभयं
शिवायास्ते मूर्तेः क इह महिमानं निगदतु ।
[^१]अमर्षम्लानायाः परममनुरोधं गिरिभुवो
विहाय श्रीकण्ठः शिरसि नियतं धारयति याम्
 
नृणामिति । भो भागीरथ, ते तव मूर्तेः तनोः महिमानं
परमदुर्घटकार्यकर्तृत्वरूपं माहात्म्यं इह लोके कः निगद्तु वदतु ।
अपितु न कोऽपीत्यर्थः । माहात्म्यबाहुल्येन कस्यापि वाणी-
प्रसराभावादिति भावः । कथंभूताया मूर्तेः । ईक्षामात्रादपि
ईक्षैव ईक्षामात्रमिति मयूरव्यंसकादित्वात्समासः । 'मात्रं का-
र्त्स्त्र्येऽवधारणे' इति कोशादवधारणं मात्रशब्दार्थः । तस्मादपि
नृणाम् । 'नृचे'त्यस्य वैकल्पिकत्वाद्दीर्घाभावः । भवभयं भवात्सं-
साराद्भयं हरन्त्याः । तदुक्तम् 'गङ्गे त्वद्दर्शनान्मृक्त्तिर्न जाने स्न्ननजं
फल'मिति । पुनः कथंभूतायाः । शिवायाः शिवयतीति शिवा ।
’तत्करोती'ति ण्यन्तात्पचाद्यचि टाप्। तस्याः । यद्वा शिवं
कल्याणं अस्ति यस्या: सा तस्या:। यद्वा शिवो महादेवो भर्तृ-
त्वेन अस्त्यस्या इति, शिवो मोक्षोऽस्त्यस्या इति पक्षचतुष्टयेऽपि
अर्शआद्यच् । 'शिवो मोक्षे महादेवे सुखे क्षेमे जले शिव’मिति
शाश्वत: । श्रीकण्ठ: कपर्दी । उग्र: कपर्दी श्रीकण्ठ:’ इत्यमरः ।
अमर्षम्लानाया: अमर्षेन कोपेन। कोपक्रोधामर्षरोष' इत्यमरः ।
म्लाना ग्लाना तस्याः एतादृशः गिरिभुवः गिरेर्हिमाचलात्
भवतीति गिरिभू: पार्वती। क्विप् । तस्याः परममुतत्कृष्टं अनुरोधं
----------------------------
[^१] ग्लानाया इति पाठ: ।