This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 
नृणामीक्षामात्रादपि परिहरन्त्या भवभयं
शिवायास्ते मूर्तेः क इह महिमानं निगदतु ।
अमर्षम्लानायाः परममनुरोधं गिरिभुवो
विहाय श्रीकण्ठः शिरसि नियतं धारयति याम् नृणामिति ।
भो भागीरथ, ते तव मूर्तेः तनोः महिमानं परमदुर्घटकार्यकर्तृत्वरूपं माहात्म्यं इह लोके कः निगद्तु वदतु । अपितु न कोऽपीत्यर्थः । माहात्म्यबाहुल्येन कस्यापि वाणी- प्रसराभावादिति भावः । कथंभूताया मूर्तेः । ईक्षामात्रादपि ईक्षैव ईक्षामात्रमिति मयूरव्यंसकादित्वात्समासः । 'मात्रं का र्त्स्त्र्येऽवधारणे' इति कोशादवधारणं मात्रशब्दार्थः । तसादपि नृणाम् । 'नृचे'त्यस्य
वैकल्पिकत्वाद्दीर्घाभावः । भवभयं भवात्सं- साराद्भयं हरन्त्याः । तदुक्तम् 'गङ्गे त्वद्दर्शनान्मृक्त्तिर्न जाने स्न्ननजं फल' मिति । पुनः कथंभूतायाः । शिवायाः शिवयतीति शिवा । 'तत्करोतीति ष्यन्तात्पचाद्यचि टाप् । तस्याः । या शिवं
'तत्करोती 'ति ण्यन्तात्पचाद्यचि टाप्। तस्याः । यद्वा शिवं कल्याणं अस्ति यस्या सा तस्या। यद्वा शिवो महादेवो भर्तृ- त्वेन अस्त्यस्या इति, शिवो मोक्षोऽस्त्यस्या इति पश्चचतुष्टयेऽपि अर्शआद्यच् । 'शिवो मोक्षे महादेवे सुखे क्षेमे जले शिव मिति शाश्वत: । श्रीकण्ठ:
कपर्दी । उग्र: कपर्दी श्रीकण्ठ:’ इत्यमरः । अमर्षम्लानाया: अमर्षेन कोपेन। कोपक्रोधामर्षरोष' इत्यमरः । म्लाना ग्लाना तस्याः एतादृशः गिरिभुवः गिरेर्हिमाचलत् भवतीति गिरिभू: पार्वती। क्विप् । तस्याः परममुत्कॄष्टं अनुरोधं
 
९ ग्लानाया इति पाठ: ।