This page has been fully proofread once and needs a second look.

गङ्गालहरी ।
 

 
पुनः कथंभूतम् । विशुद्धं मायामलरहितम् । नारायणतीर्थ-

सरस्वतीभिरपि गङ्गैवाद्वितीयं ब्रह्मेत्युक्तम् । 'न नानेहास्तीति

श्रुति वचनजातैर्भगवती निरस्यैवाभासि स्वयमखिलभेदं सुरधुनि ।

चिदात्मैका नित्या चितिसुखसदाविष्कृतिरसि त्वदीयं मोक्षार्थं

श्रयति जनता जीवनपद' मिति । अत्र शिष्यबुद्धिवैशद्याय किं-

चिदुच्यते- वेदोनाम ब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यम् । स

च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रा नाम अनुष्ठानकारकभूतद्रव्य-

देवताप्रकाशकाः । ते चं ऋग्यजुःसामभेदात्रिधा । पादबन्धगा-

यत्र्यादिछन्दोविशिष्टा ऋचः अग्रिमीळ इत्यादयः । गीतिवि

शिष्टास्ता एव सामानि । उभयविलक्षणानि यजूंषि । ब्राह्मण-

मपि त्रिविधं विधिरूपं अनुवादरूपं उभयविलक्षणं चेति मीमां-

साग्रन्थेभ्योऽवधेयम् । इह विस्तरभयान्न तन्यत इति दिक् ॥ १०

इदानीं निखिललोकानां साधारण्येनात्यन्तदुष्प्राप विष्णु-

पददात्री त्वं न केनापि तुलनीयेत्याह-

महादानैर्ध्यानैर्बहुविधवितानैरपि च यन्
 

न लभ्यं घोराभिः सुविमलतपोराशिभिरपि ।

अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया
 

 

ददाना केनासि त्वमिह तुलनीया कथय नः ११

महादानैरिति । भो भागीरथि, अखिलसाधारणतया अ

खिलानां सर्वलोकानां साधारणता साधारण्यं नतु न्यूनाधि-

क्यम् तथा । विष्णोर्नारायणस्य । 'विष्णुर्नारायणः
कृष्णः’
इत्यमरः । पदं चरणं वैकुण्ठस्य स्थानं वा । यद्वा
 
कृष्णः
विष्णो: पदं
 
FOUNDED
1917
 
॥ तेजस्वि नाथ मस्तु ॥
 
Research