This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता ।
 
वशादुक्तार्थलाभः । तदुक्तम् उपसर्गेण धात्वर्थो बलादन्यत्र
नीयते' इति । ननु 'नेह नानास्ति' इत्यादिश्रुतिभिः इतराभाव-
बोधनेऽपि स्वाभावाबोधेन कथमद्वैतसिद्धिरितिचेन्न । स्वस्मि-
न्नपि स्वप्रवृत्त्या स्वाभावस्थापि बोधनात् । अतएव 'ससजुषो
रु:' 'खरवसानयोर्विसर्जनीयः' इत्यादिनिर्देशाः संगच्छन्त
इति दिक् । वेदानामध्यगोचरमित्युक्तत्वादिति भावः । पुनः
कथंभूतम् । यसिन्ब्रह्मणि जीवानां व्यासादिविद्वत्प्राणिनां
मनोवागवसरः मनश्च वाक् च अनयोः समाहारः मनो-
वाक् । 'द्वन्द्वश्च प्राणी'त्येकवद्भावः । मनोवाचोः अवसरः
व्यापार इति यावत् । न प्रसरति । न प्रसरणशीलो भवती-
त्यर्थः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे' तिश्रुते-
रिति भावः । ननु मनोवागित्यत्र 'इन्द्रश्च प्राणी'ति नियमा- न्नि
नित्यसमाहारे 'द्वन्द्वादषहान्ता' दिति टचा भाव्यम् । तथा
चोक्तप्रयोगासंगतिरितिचेन्न । समासान्तविधेरनित्यत्वात् । अत्र
प्रमाणं तु अश्वादिगणे राजनशब्दपाठ इति दिक् । मनः-
शब्दस्य प्राण्यङ्गत्वाभावेन शङ्कैव नेति वा । पुनः कथंभूतम् ।
निराकारं निर्गतः आकारो यस्य तत् । अशरीरमित्यर्थः । 'अपा-
णिपाद' इत्यादिश्रुतेः । पुनः कथंभूतम् । नित्यं निरन्तरं भवं
नित्यम् । अव्ययायप् । उत्पत्यादिशून्यमित्यर्थः । 'न जायते
म्रियते' इत्यादिस्मृतेरित्यर्थः । पुनः कथंभूतम् । निजमहिमनि-
र्वासिततमः निजमहिम्ना स्वमाहात्म्येन निर्वासितं नाशितं तमो
येन तत् । स्वप्रकाशमित्यर्थः । 'यस्य भासा सर्वमिदं वि-
भाति' 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि
यच्चाग्रौ तत्तेजो विद्धि मामकमि' त्यादिश्रुतिस्मृतिभ्यामित्यर्थः ।