2023-03-31 10:47:07 by Rupa jha
This page has been fully proofread once and needs a second look.
द्वन्द्वः । एषामपहरणं नाशकम् । अमरावत्यां तु 'क्षीणे पुण्ये
मृत्युलोकं विशन्ती'ति पुनरपि भूलोकप्राप्तिरूपानिष्टमप्यस्तीति
भावः । कदाचित् विमानस्थेनेन्द्रेण गङ्गातीरे खेलतः काका-
न्दृष्ट्वा युष्माभिः क्रीडार्थं मद्वने आगन्तव्यमित्युक्ते अत्रैव वयं
निवसामः न तव वने आगमिष्याम इति तैरुक्तमिति स्पष्टं
गङ्गापुराणे ॥ ९ ॥
ननु सर्वोत्कृष्टं वेदाद्यगोचरं परं ब्रह्म विहाय स्वाभिमतफ-
लावाप्तये मामेव किं स्तौपीति चेत्तादृशं ब्रह्म तत्त्वमेव नेतर-
विषय इत्याह-----
न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं
न यस्मिञ्जीवानां प्रसरति मनोवागवसरः ।
निराकारं नित्यं निजमहिमनिर्वासिततमो
विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः १०
न यदिति । भो सुरतटिनि, सुराणां देवानां तटिनी
धुनी तत्संबोधनम् । 'तटिनी ह्रादिनी धुनी'त्यमरः । तद्वक्ष्य-
माणविशिष्टत्वं निखिलजगत्कारणत्वेन प्रसिद्धं ब्रह्मत्वम् । सर्वं
वाक्यं सावधारणमितिन्यायात्त्वमेवेत्यर्थः । असीति शेषः । न
विषयः । त्वमितरविषयभूता नासीत्यर्थः । तत्किम् । यत् ब्रह्म
गलितभेदैः गलितः गतः भेदो येभ्यस्ते गलितभेदाः तैरद्वै-
तप्रतिपादकै: 'नेह नानास्ति किंचने’त्यादि ब्रह्मरूपैः साक्षाद्वे-
दैरपि प्रत्यक्षश्रुतिमिरपि न अवसितम् । इयत्तया न निश्चितमि-
त्यर्थः । 'षोऽन्तकर्मणी'ति धातोः'द्यतिस्यती'तीत्वम् । उपसर्ग-