This page has been fully proofread once and needs a second look.

१४
 

 
गङ्गालहरी ।
 

 
द्वन्द्वः । एषामपहरणं नाशकम् । अमरावत्यां तु 'क्षीणे पुण्ये

मृत्युलोकं विशन्ती' ति पुनरपि भूलोकप्राप्तिरूपानिष्टमध्यस्तीति

भावः । कदाचित् विमानस्थेनेन्द्रेण गङ्गातीरे खेलतः काका-

न्दृष्ट्वा युष्माभिः क्रीडार्थ मद्वने आगन्तव्यमित्युक्ते अत्रैव वयं

निवसामः न तव वने आगमिष्याम इति तैरुक्तमिति स्पष्टं

गङ्गापुराणे ॥ ९ ॥
 

 
ननु सर्वोत्कृष्टं वेदाद्यगोचरं परं ब्रह्म विहाय स्वाभिमतफ-

लावाप्तये मामेव किं स्तौपीति चेत्तादृशं ब्रह्म तत्त्वमेव नेतर-

विषय इत्याह-

न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं
 

न यस्मिञ्जीवानां प्रसरति मनोवागवसरः ।

निराकारं नित्यं निजमहिमनिर्वासिततमो
 

विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः १०

 
न यदिति । भो सुरतटिनि, सुराणां देवानां तटिनी

धुनी तत्संबोधनम् । 'तटिनी हादिनी धुनी'त्यमरः । तद्वक्ष्य-

माणविशिष्टत्वं निखिलजगत्कारणत्वेन प्रसिद्धं ब्रह्मत्वम् । सर्
वं
वाक्यं सावधारणमितिन्यायात्त्वमेवेत्यर्थः । असीति शेषः । न

विषयः । त्वमितरविषयभृभूता नासीत्यर्थः । तत्किम् । यत् ब्रह्म

गलितभेदैः गलितः गतः भेदो येभ्यस्ते गलितभेदाः तैरद्वै-

तप्रतिपादकै: 'नेह नानास्ति किंचने त्यादि ब्रह्मरूपैः साक्षाद्वे-

दैरपि प्रत्यक्षश्रुतिमिरपि न अवसितम् । इयत्तया न निथितमि-

त्यर्थः । 'षोऽन्तकर्मणी' ति धातोः'यतिस्यती'तीत्वम् । उपसर्ग-
INSTI