This page has been fully proofread once and needs a second look.

इदानीं करटानामपि इन्द्रोद्यानापेक्षया प्रियतरं तव तीरं
मम श्रमनाशनसमर्थमस्त्विति प्रार्थयते--
 
यदन्तः खेलन्तो बहुलतरसंतोषभरिता
न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः ।
निवासाल्लोकानां जनिमरणशोकापहरणं
तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥९॥
 
यदिति । भो भागीरथि, ते तव तत् एतत् समीपवर्ति तीरं
नः अस्माकं श्रमशमनधीरं श्रमस्य शमनं तत्र धीरं समर्थं
पण्डितं वा । 'धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कवि'-
रित्यमरः । भवतु अस्तु । तत्किम् । यदन्तः यस्य तीरस्यान्तः
मध्ये खेलन्तः क्रीडन्तः काकाः करटाः । 'काके तु करटारिष्टे'-
त्यमरः । बहुलतरसंतोषभरिताः सन्तः अतिशयेन बहुलः बहुल-
तरः । अतिशायने तरप् । बहुलतरश्चासौ संतोषश्च तेन भरिताः
पूर्णाः एतादृशः सन्तः नाकाधीश्वरनगरसाकाङ्क्षमनसः नाकस्य
स्वर्गस्य । 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः'इत्यमरः । अ-
धीश्वरः पतिः इन्द्रः तस्य नगरं अमरावती तत्र साकाङ्क्षं साभिलाषं
मनो येषां ते एतादृशा न भवन्तीति शेषः । अमरावत्यपेक्षया
तीरे अधिकगुणसत्त्वादित्यर्थः । तदेवाह । कथंभूतं तीरम् ।
निवासाद्धेतोः । 'विभाषा गुणे स्त्रिया'मिति हेतौ पञ्चमी । लो-
कानां जनिमरणशोकापहरणं जनिरुत्पत्तिः । 'जनिरुत्पत्तिरु-
द्भवः'इत्यमरः । मरणं निधनम् । 'मरणं निधनोऽस्त्रिया’मित्यमरः ।
शोकः पुत्रकलत्रादिवियोगजनितमनोविकृतिरूपः । त्रयाणां