This page has been fully proofread once and needs a second look.

पीयूषलहरीव्याख्यासहिता
 

 
१३
 
1
 

 
इदानीं करटानामपि इन्द्रोद्यानापेक्षया प्रियतरं तव तीरं

मम श्रमनाशनसमर्थमस्त्विति प्रार्थयते-

 
यदन्तः खेलन्तो बहुलतरसंतोषभरिता
 

न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः ।

निवासाल्लोकानां जनिमरणशोकापहरणं
 

तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥९॥
 

 
यदिति । भो भागीरथि, ते तव तत् एतत् समीपवर्ति तीरं

नः अस्माकं श्रमशमनधीरं श्रमस्य शमनं तत्र धीरं समर्
थं
पण्डितं वाव्रा । 'धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कवि'-

रित्यमरः । भवतु अस्तु । तत्किम् । यदन्तः यस्य तीरस्यान्तः

मध्ये खेलन्तः क्रीडन्तः काकाः करटाः । 'काके तु करटारिष्टे'-

त्यमरः । बहुलतरसंतोषभरिताः सन्तः अतिशयेन बहुलः बहुल-

तरः । अतिशायने तरप् । बहुलतरवासौ संतोषश्च तेन भरिताः

पूर्णाः एतादृशः सन्तः नाकाधीश्वरनगरसाकाङ्क्षमनसः नाकस्य

स्वर्गस्य । 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः' इत्यमरः । अ-

धीश्वरः पतिः इन्द्रः तस्य नगरं अमरावती तत्र साकाङ्क्ष साभिलापं

मनो येषां ते एतादृशा न भवन्तीति शेषः । अमरावत्यपेक्षया

तीरे अधिकगुणसवादित्यर्थः । तदेवाह । कथंभूतं तीरम् ।

निवासाद्धेतोः । 'विभाषा गुणे स्त्रिया' मिति हेतौ पञ्चमी । लो-

कानां जनिमरणशोकापहरणं जनिरुत्पत्तिः । 'जनिरुत्पत्तिरु-

द्भवः' इत्यमरः । मरणं निधनम् । 'मरणं निधनोऽस्त्रिया

मित्यमरः ।

शोकः पुत्रकलत्रादिवियोगजनितमनोविकृतिरूपः
 
1917
 
॥ तस्य नावा
 
Bhandarkar Oriental
Research Institute
 
। त्रयाणां