This page has not been fully proofread.

पीयूषलहरीव्याख्यासहिता
 

 
१३
 
1
 
इदानीं करटानामपि इन्द्रोद्यानापेक्षया प्रियतरं तव तीरं
मम श्रमनाशनसमर्थमस्त्विति प्रार्थयते-
यदन्तः खेलन्तो बहुलतरसंतोषभरिता
 
न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः ।
निवासाल्लोकानां जनिमरणशोकापहरणं
 
तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥९॥
 
यदिति । भो भागीरथि, ते तव तत् एतत् समीपवर्ति तीरं
नः अस्माकं श्रमशमनधीरं श्रमस्य शमनं तत्र धीरं समर्थ
पण्डितं वा । 'धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कवि'-
रित्यमरः । भवतु अस्तु । तत्किम् । यदन्तः यस्य तीरस्यान्तः
मध्ये खेलन्तः क्रीडन्तः काकाः करटाः । 'काके तु करटारिष्टे'-
त्यमरः । बहुलतरसंतोषभरिताः सन्तः अतिशयेन बहुलः बहुल-
तरः । अतिशायने तरप् । बहुलतरवासौ संतोपच तेन भरिताः
पूर्णाः एतादृशः सन्तः नाकाधीश्वरनगरसाकाङ्क्षमनसः नाकस्य
स्वर्गस्य । 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः' इत्यमरः । अ-
धीश्वरः पतिः इन्द्रः तस्य नगरं अमरावती तत्र साकाङ्क्ष साभिलापं
मनो येषां ते एतादृशा न भवन्तीति शेषः । अमरावत्यपेक्षया
तीरे अधिकगुणसवादित्यर्थः । तदेवाह । कथंभूतं तीरम् ।
निवासाद्धेतोः । 'विभाषा गुणे स्त्रिया' मिति हेतौ पञ्चमी । लो-
कानां जनिमरणशोकापहरणं जनिरुत्पत्तिः । 'जनिरुत्पत्तिरु-
द्भवः' इत्यमरः । मरणं निधनम् । 'मरणं निधनोऽस्त्रिया
मित्यमरः ।
शोकः पुत्रकलत्रादिवियोगजनितमनोविकृतिरूपः
 
1917
 
॥ तस्य नावा
 
Bhandarkar Oriental
Research Institute